________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः]
अनघराघवम् । तेषु च सत्सु ___वृथा सज्जनसंबन्धसत्कारेणासि वञ्चितः ।
पौलस्त्यहस्तवर्तिन्या सीतया तु भविष्यते ॥ ६० ॥ (साक्षेपं च नेपथ्याभिमुखमवलोक्य ।)
समन्तादुत्तालैः सुरसहचरीचामरमरु___ तरङ्गैरुत्कील जपरिघसौरभ्यशुचिना ।
खयं पौलस्त्येन त्रिभुवनभुजा चेतसि कृता
___ मरे राम त्वं मा जनकपतिपुत्रीमुपयथाः ॥ ६१ ॥ (संविमर्शमात्मगतम् ।) अहो गम्भीरमिदमुपस्थितं वस्तु । तन्मत्रिणं माल्यवन्तमेव पुरस्कृत्य लङ्केश्वरस्य निवेदयामि ।
(इति निष्क्रान्ताः सर्वे ।)
इति पिनाकभङ्गो नाम तृतीयोऽङ्कः । णीषु सहचरभ्रमरपतिषु साधारणो हेयोऽन्यहस्तितुल्यो वाभूत् । अमात्यः सहचरः सहजो वा । श्रेणीविति निमित्तसप्तमी । 'साधारणो हेयतुल्ययोः' इति विश्वः । 'मदो दाने च हर्षे च' इत्यमरः । 'मैरेयमासवः सीधुः' इति च । वृथेति । वञ्चितस्त्यक्तः । भविष्यते इति भावे लट् । तथा च सांप्रतमपि रावणायैव सीतां दातुमर्हसीति भावः । संप्रति राममप्युत्रासयति-समन्तादिति। उत्तालैः । अनभ्यासादिति भावः । सुरसहचरी देवस्त्री । मरुत्तरङ्गैर्वायुकल्लोलैः । करणभूतैः । परिघोऽर्गलः । 'परिघोऽर्गलघातयोः' इति धरणिः । सौरभ्यं ख्यातिः । शुचिना शुद्धेन । त्रिभुवनभुजा त्रिभुवनं भुनक्ति । 'विप्च' इति क्विम् । अरे नीचसंबोधने । जनकपतिपुत्रीं सीताम् । मा उपयथा न विवाहयिष्यसि । 'यम उपयमे' लुङ् । 'उपाद्यमः स्वकरणे' इति तङ् । थासः 'विभाषोपयमने' इति कित्त्वम् । इदं वस्तु हरधनुर्भङ्गरूपम् । सीताप. रिणयस्वरूपं चेत्यर्थः । माल्यवान्रावणस्य मातामहः । पुरस्कृत्य सत्कृत्य । 'पुरोऽव्ययम्' इति गतिसंज्ञा । 'नमस्पुरसोर्गयोः' इति विसर्जनीयस्य सत्वम् ॥ इति समस्तप्रक्रियाविराजमानरिपुराजकंसनारायणभवभक्तिपरायणश्रीहरिनारायणपदसमलंकृतमहाराजाधिराजधीमङ्गैरवसिंहदेवप्रोत्साहितवैजौलीग्रामवास्तव्यखौआलवंशप्रभवश्रीरुचिपतिमहोपाध्यायविरचिताया
मनर्घराघवटीकायां तृतीयोऽङ्कः।। १. 'च' इति पुस्तकान्तरे नास्ति. २. 'वशवर्तिन्या'. ३. 'च' इति पुस्तकान्तरे नास्ति. ४. 'सविस्मयमात्मगतम्'. ५ 'इदम्' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only