________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
काव्यमाला |
त्मानम् । नहि मिहिरमरीचिनि चयपचेलिमस्य तुहिनकरबिम्बसंवादादपरोऽपि कश्चिदगदंकारः कैरवाकरस्य ।
( इत्युत्थाय परिक्रामतः 1)
शौष्कलः– (सखेदमाकाशे । ) हा तपखिनि सीते, हतासि । पौलसत्यप्रार्थितापि विचार्यसे ।
त्रिभुवनविजयश्रियः सपलीं जनयतु को भवतीमनात्मतन्त्राम् । स्वजनमपि न ते निरूपयामः कमपि विपाट्य भुवं विनिर्गतासि ॥ ५८ ॥ (सरोषं जनकं प्रति ।) सीरध्वज,
पौराणीभिरनेकविक्रमकथागाथाभिरर्थापिता
स्ते वीरस्य जयन्ति राक्षसपतेर्दोः स्तम्भदम्भोलयः । यानुत्प्रेक्ष्य विशोषयन्मदमयं मैरेय मैरावणो
भूषास्रग्भिरभूदमात्यमधुपश्रेणीषु साधारणः ॥ ५९ ॥
सा सीता' इति रामायणम् । अपमार्छु खण्डयितुं शोधयितुं वा । निर्वापयामि सुखयामि । अलीकं मिथ्या निष्फलं वा । कदर्थितं संतापितम् । दृष्टान्तमाह -नहीति । मिहिरः सूर्यः । निचयः समूहः । परिचयः संबन्धः । पचेलिमस्य पच्यमानस्य । स्वयं कथ्यमानस्येति यावत् । 'केलिमर उपसंख्यानम्' इति कर्मकर्तरि केलिमर् | अगदंकारः संकोचरूपव्याधेरपहर्ता । 'कारे सलागदस्य' इति मुम् । कैरवाकरस्य कुमुदसमूहस्य | " आकरो निवोत्पत्तिस्थानकोशेषु कथ्यते' इति मेदिनीकरः । हे तपस्विन्यनुकम्प्ये ॥ चराकीति यावत् । अनात्मतन्त्रां पराधीनाम् । आद्योऽपिर्निन्दायाम् । निन्दितं खजनमित्यर्थः । द्वितीयोऽपिः समुच्चये । विपाट्य विदार्य । नयेन सीताया अप्राप्तिमवधार्य पराक्रमेण रावणः सीतां परिणेष्यतीति जनकमुत्रासयितुं रावणभुजपराक्रममाहपौराणीभिरिति । राक्षसपते रावणस्य ते दोः स्तम्भदम्भोलयो बाहुस्तम्भवज्राणि जयन्ति । दोःस्तम्भदम्भोलय इति रूपकरूपकम् । कीदृशाः । पौराणीभिः पुराणभवाभिरनेकपराक्रमकथागाथाभिरर्थापिता अभिधेयीकृताः । व्याख्याता इत्यर्थः । 'तत्करोति-' इति णिच् । ‘अर्थवेदसत्यानामापुक्' । के ते । ऐरावण इन्द्रहस्ती यान्बाहूनुत्प्रेक्ष्य दृष्ट्वा मदो हर्षस्तस्मादागतम् । 'हेतुमनुष्येभ्यो मयट्' इति मयट् । यद्वा मदमयं मत्ततामयम् । मैरेयं मद्यं विशोषयन्सन् । यद्वायमैरावणो मदं दानं मैरेयं मद्यजातम् । कारणे कार्योपचारात् । विशोषयंस्त्रासात् । भूषास्रग्भिरलंकरणमालाभिरमात्यमधुपश्रे
१. 'परिचय-'. २. 'हिमकर - ' ३ 'अपि' इति पुस्तकान्तरे नास्ति. ४. 'कैरवकेदारस्य'.
For Private and Personal Use Only