________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३ अङ्कः]
अनर्धराघवम् ।
पश्यामश्च सुहृद्गृहान्नवनवोन्मीलद्विवाहोत्सवा
नैक्ष्वाकेषु च मैथिलेषु च फलन्त्यस्माकमद्याशिषः ॥ ५७ ॥ शौष्कलः --- (वैलक्ष्यरोपाभ्यां स्मयमानः ) भोः सीरध्वज, पुरुषप्रकर्षाधाने हि विद्यावृद्धसंयोगाद्वहिरङ्गानि वयांसि । यदनया प्रहीणलब्धकन्यया यौनसंबन्धोपस्थितं पुलस्त्यकुलमुपेक्षमाणो वर्षीयानपि कोमलप्रेज्ञोऽसि । ( मुनिं प्रति । ) कौशिक, नाद्यापि किंचिदतिक्रामति । तवापि लङ्कापतौ ताडका धापराधमपमाष्टुमयमेवावसरः । ( कौशिकस्तत्रावज्ञां नाटयति ।)
Acharya Shri Kailassagarsuri Gyanmandir
१४१
जनकः - भगवन्, एहि । स्वयमुपेत्य रामभद्रवदनचन्द्रचन्द्रिकाप्रवाहेण निर्वापयामि तावदली कधनुर्धर सहस्रप्रार्थ्यमानमैथिलीकदर्थितमा
भावः । नवनवेति वीप्सायां द्विर्वचनम् । यद्वा नवेन नूतनेन नवेन स्तवेनोन्मीलन्प्रकाशवान्विवाहोत्सवो येषु तान् । 'णु स्तुतौ' । 'ऋदोरप्' इति कर्मण्यप् । ऐक्ष्वाकेष्विति यदा जनपदनाम तदा ‘जनपदशब्दात्क्षत्रियादज्' इत्यञ् । 'यञञोश्च' इति बहुषु स्त्रियां लुक् । एवं चेक्ष्वाकूणामपत्यानीक्ष्वाकवः । यदा त्विक्ष्वाकुः क्षत्रियमात्रे वर्तते तदेवाकोरपत्यान्यैक्ष्वाकाः । ' तस्यापत्यम्' इत्यौत्सर्गिकोऽण् । 'दाण्डिनायन-' इत्यादिनोकारलोपः । वैलक्ष्यरोषाभ्यामिति । इन्दुशेखरधनुर्भङ्गश्रवणात्सीताया अप्राप्तिनिर्णयाच्चेति भावः । रामभद्रजामातृकरणे जनकस्याज्ञत्वमुपपादयति - पुरुषेति । पुरुषप्रकर्षाने पुरुषस्योत्कर्षारोपणे । हिशब्दोऽवधारणे । 'हि हेताववधारणे' इत्यमरः । विद्या शास्त्रादिज्ञानं तया वृद्धः पण्डितः । ' बुधवृद्ध पण्डितेऽपि ' इत्यमरः । यद्वा विद्यया ज्ञानेन वृद्धः प्रामाणिकः । तस्य संयोगः संबन्धः । तस्माद्वयांसि वार्धकनि बहिरङ्गान्यबलानि । एतदुक्तं भवति – विद्यावृद्धसंबन्धः पुरुषोत्कर्षेऽन्तरङ्गो हेतुर्वयो बहिरङ्गमिति भावः । नूनं कुतो वयसो बहिरङ्गत्वमित्यत आह — यदनयेति । यद्यस्मात्प्रहीणं हलपद्धतिस्तत्र प्राप्तकन्यया सीतया करणभूतया । अयोनिजयेति यावत् । यौनसंबन्धोपस्थितं यौनसंबन्धार्थमुपस्थितं मिलितं पुलस्त्यकुलं रावणमुपेक्षमाणो वर्षीयानपि वृद्धोऽपि । वृद्धशब्दस्य 'प्रियस्थिर-' इत्यादिना वर्षादेशः । कोमलप्रज्ञो मृदुवुद्धिरसि । ज्ञानशून्योऽसीत्यर्थः । यद्वा प्रहीणा प्रकर्षेण हीना । भूम्यां लब्धत्वेन केन जनितेति ज्ञानाभावात् । यद्वा निन्दिता सामुद्रकादौ । कृष्णवर्णत्वात् । 'कृष्णवर्णा हि
For Private and Personal Use Only
१. ‘वृद्धख-’. २. ‘यौवन - ' ३ ' प्रतिज्ञोऽसि'. ४. 'राजर्षे कौशिक '; 'ऋषे कौशिक'. ५. ‘वधमपि मार्टुम्'. ६. 'जनक: – (तत्रावज्ञां नाटयन् 1) भगवन्, एहि . ७. 'स्वयमुपेत्य' इति पुस्तकान्तरे नास्ति. ८. ' रामचन्द्रमुखचन्द्रचन्द्रिकाप्रवाहैः; 'रामभद्र - प्रवाहे '. ९ 'निर्वापयामः ' १०. ' सहस्रार्थ्य--'.
अन० १३