________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
काव्यमाला ।
शतानन्दः-(जनककर्णे एवमेवं कथयित्वा ।) भगवन्विश्वामित्र, ममापि चन्द्रशेखरशरासनारोपणप्रथमप्रियवादिनः पारितोषकं धारयसि । विश्वामित्र:-(विहस्य ।) वत्स, दीयते । किमभिप्रैषि ।
शतानन्दः-कुशध्वजदुहितृभ्यां माण्डवीश्रुतकीर्तिभ्यां भरतशत्रुघ्नावभ्यर्थये ।
विश्वामित्रः-ऐवमस्तु । (शतानन्दं हस्ते गृहीत्वा सस्मितम् ।) वत्स, सर्वमस्माभिर्विधातव्यम् । आगमयख तावद्दशरथम् ।
जनकः--तर्हि प्रहीयतामेष एव भगवानाङ्गिरसः प्रियसुहृदमुत्तरको शलेश्वरमानेतुम् । विश्वामित्रः:-एवमस्तु । शतानन्दः-(उत्थाय ।) भगवन् , किमन्यदधिकमस्ति वाचिकम् । विश्वामित्रः-वत्स, निसृष्टार्थोऽसि । गम्यताम् ।
(इति शतानन्दो निष्क्रान्तः ।) विश्वामित्रः--(हर्षं नाटयनात्मगतम् ।) दोलीलादलितेन्दुशेखरधनुर्विख्यातविक्रान्तिना
काकुत्स्थेन कृतो विदेहनृपतिः पूर्णप्रतिज्ञाभरः । ।
प्रीयमाणः' इति संप्रदानता। कर्णे एवमेवेति । कुशध्वजदुहितरावपि भरतशत्रुघ्नाभ्यां दीयतामिति रहः कथनीयम् । पारितोषकं परितोषभवं दानम् । अध्यात्मादित्वाहकू । ममेति ‘धारेरुत्तमणः' इति संप्रदानता न भवति । उत्तमर्णत्वाभावात् । अभिप्रेषि प्रार्थयसे । माण्डवीश्रुतकीर्तिभ्यामिति तादर्थ्य चतुर्थी । अभ्यर्थये। वरत्वेनेति शेषः । आगमयख प्रतीक्षस्व । 'आगमेः क्षमायाम्' इति तङ् । उत्तरकोशलायोध्या तस्या ईश्वरो दशरथः । वाचिकं संदेशवाक् । 'संदेशवाग्वाचिकं स्यात्' इत्यमरः । निसृष्टार्थ ऊहापोहसमर्थो दूतविशेषः । तदुक्तम्-'उभयोभीवमाश्रित्य परापेक्षाविवर्जितम् । स्व. बुद्ध्या कुरुते कार्य निसृष्टार्थः प्रकीर्तितः ॥' इति । दोर्लीलेति । काकुत्स्थेन रामेण विदेहनृपतिर्जनकः पूर्णः प्रतिज्ञाभरो यस्य तादृशः कृतः । महादेवकार्मुकाकर्षणादिति
१. 'जनकस्य कर्ण एवमेवमिति'. २. 'एवमस्तु' इति पुस्तकान्तरे नास्ति. ३. 'एव' इति पुस्तकान्तरे नास्ति. ४. 'उत्थाय' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only