________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः] अनर्घराघवम् ।
१३९ तान्यक्ष्णा बधिराणि पन्नगकुलान्यष्टौ च संपादय
नुन्मीलत्ययमार्यदोर्बलदलत्कोदण्डकोलाहलः ॥ ५४ ॥ जनकः-(सहर्षविषादाद्भुतम् ।) कथं भगमपि । शतानन्दःवैदेहीकरबन्धमङ्गलयजुःसूक्तं द्विजानां मुखे
नारीणां च कपोलकन्दलतले श्रेयानुलूलुध्वनिः । पेष्टुं व द्विषतामुपश्रुतिशतं मध्येनभो जृम्भते
रामक्षुण्णमहोक्षलाञ्छनधनुर्दम्भोलिजन्मा रवः ॥ ५५ ॥ शौष्कलः—(संविषादाद्भुतमात्मगतम् ।) अहो दुरात्मनः क्षत्रियस्फुलिङ्गस्य सर्वकर्माणमूष्मायितम् । जनकः-(सहर्ष पादयोर्निपत्य ।) भगवन्कुंशिकनन्दन, इयमात्मगुणेनैव क्रीता रामेण मैथिली ।
खगृहव्यवहारस्तु लक्ष्मणायोर्मिलास्तु नः ॥ ५६ ॥ विश्वामित्र:-(मम्मितम् ।) सखे सीरध्वज, यदभिरुचितं भवते । कुलपर्वतान्दलयन्खण्डयन् । तानि प्रसिद्धान्यष्टौ पन्नगकुलानि चाक्ष्णा चक्षुषा बधिराणि शव्दाग्राहकाणि संपादयन्कुर्वन् । तेषां चक्षुःश्रवस्त्वात् । अक्ष्णेति 'येनाङ्गविकारः' इति तृतीया । कथं भग्नमपीत्याकर्षणापेक्षयापिः । वैदेहीति । रामेण क्षुण्णो भग्नो यो नहोक्षलाञ्छनस्य महेशम्य धनुर्दम्भोलिर्धनुरेव वज्रं तजन्मा रवः शब्दो द्विषतां शत्रूणां पेष्टुं शत्रून्हन्तुं मध्येनभो गगनस्य मध्ये जृम्भते । प्रसरतीत्यर्थः । उपश्रुतिशत कर्णशतसमीपे । सामीप्येऽव्ययीभावः । धनुर्भङ्गादेव द्विजानां ब्राह्मणानां मुखे वैदेह्याः सीतायाः करबन्धे विवाहे मङ्गलाथ यजुर्वेदस्थं सूक्तम् । यद्वा मङ्गलनामकं यजुःसूक्तम् । नृम्भत इति सर्वत्रान्वयः । नारीणां स्त्रीणां च कपोलकन्दलतले श्रेयानुलूलुध्वनिः । 'उलउली' इति प्रसिद्धः । जृम्भत इत्यन्वयः। दक्षिणदेशे विवाहाद्यवसरे स्त्रीभिरुलूलुध्वनिः क्रियत इत्याचारः । यद्वा द्वयमपि रवविशेषणमेव रूपकम् । द्विषतामित्यत्र 'जासिनिप्रहण-' इति कर्मणि षष्ठी। मध्येनभ इति 'पारे मध्ये षष्ठ्या वा' इति समासः । सर्वकर्मीणं सर्वकर्मसाधु । ऊष्मायितं तेजःशालित्वम् । 'बाघ्पोष्मभ्यामुद्रमने' इति क्यङ् । वगृहस्य गृहस्थस्य व्यवहारः कन्यादानरूपः नोऽस्माकम् । भवत इति 'रुच्यर्थानां
१. 'ललत'. २. 'महाद्भुतम्'. ३. 'कन्दर-'. ४. 'सविषादमात्मगतम्'. ५. 'कौ. शिकवंशवर्धन'.
For Private and Personal Use Only