________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
काव्यमाला।
तदुन्माष्टुं येन त्रिभुवनमपि प्रार्थितमिदं
तदेव त्वय्यर्थीभवति दशमं रावणमुखम् ॥ ५२ ॥ शतानन्दः--(उत्थाय । नेपथ्यावलोकितकेन सहर्षाद्भुतम् ।) पश्यन्तु भवन्तः ।
यस्मिन्नेकधनुष्मतो भगवतः खदाङ्गपाणेरसा__ वाकृष्टो गुणतां गतोऽप्यहिपतिः कर्णावतंसायते । उन्मुक्तः पुनरेव भूषणपदं याति प्रकोष्ठान्तरे
(जनक औत्सुक्यं नाटयति ।) शतानन्दकाकुत्स्थेन तदेव भार्गवगुरोः कोदण्डमाकृप्यते ॥ ५३ ॥
(नेपथ्ये ।) लक्ष्मण:रुन्धन्नष्ट विधेः श्रुतीर्मुखरयत्नष्टौ दिशः क्रोडय
न्मूर्तीरष्ट महेश्वरस्य दलयन्नष्टौ कुलक्ष्माभृतः । "अस्य च्वौ' इतीत्त्वम् । दशम मित्युपचारात् । नवानामभावात् । तत्कतरदिल्याह-येन मुखेन तादृकर्माद्भुतसदृशं मस्तककर्तनोचितं वरं किमपि किंचिदप्यप्रेक्ष्य प्ररोहदुत्पद्यमानं वैलक्ष्यं पुरविजयिनो महादेवस्य ददृशे दृष्टम् । कर्मणि लिटू । ततस्तद्वैलक्ष्यमुन्माते स्फोटयितुं त्रिभुवनमपीदं प्रार्थितम् । तथा च तादृगर्थी भाग्येन लभ्यत इति भावः । 'रावगशिरः' इति क्वचित्पाठः । 'रावणमुखम्' इति युक्तः पाठः । प्रार्थनाया मुखसाध्यत्वात् । यस्मिन्निति । यस्मिन्धनुषि गुणतां गतोऽप्यहिपतिर्वासुकिराकृष्टः सन्खाङ्गपाणमहेशस्य कर्णावतंसायते कर्णालंकारवदाचरति । उन्मुक्तस्त्यक्तः सन्प्रकोष्टान्तरे, अर्थात्खट्टाङ्गपाणेरेव, पुनरेव भूषणपदमलंकारस्थानं याति गच्छति । करस्योपरि मणिबन्धादारभ्य कफोणेरधः प्रकोष्टः । तदेव कोदण्डं धनुर्भार्गवगुरोः परशुरामगुरोर्हरस्य काकुस्थेन रामेणाकृष्यत इति संबन्धः । नेपथ्ये लक्ष्मणवचनम्-रुन्धन्निति । अयमार्यस्य रामस्य दोर्बलेन भुजबलेन दलत्रुट्यद्यत्कोदण्डं धनुस्तस्य कोलाहल: शब्द उन्मालति प्रसरति । किं कुर्वन् । विधेब्रह्मणोऽट श्रुतीः कर्णान्रुन्धनवरोधयन् । चतुर्मुखत्वादश्रुतित्वम् । अष्टौदिशः प्राच्याद्या मुखरयन्सशब्दाः कुर्वन् । शिवस्याष्ट मूर्तीर्वारिवहवादीः क्रोडयन्व्याप्नुवन् । धातोरनेकार्थत्वात् । 'वारि वह्निर्धरा वायुराकाशं चन्द्रमा अपि । यजमानो रविश्चेति मूर्तयोऽष्टौ मता हरेः ॥' इति पुराणम् । अष्टौ कुलक्ष्माभृतः १. 'नेपथ्याभिमुखमवलोकयन्'. २. 'पश्यन्तु पश्यन्तु'. ३. उन्मुक्तश्च पुरेव'.
For Private and Personal Use Only