________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः] अनघराघवम् ।
१३७ शौष्कल:---(सक्रोधम् ।) अरे रे, शतानन्द, किमुद्रान्तोऽसि । यदेवमस्मदने पौलस्त्यं महाराजमधिक्षिपसि । कथमयं ते माणिक्यपरिहाणेन गैरिकपरिग्रहः । यदेवं दशग्रीवमवमन्यमानस्य मनुष्यपोतेऽनुरागः । यदि वा तत्रभवन्तं गौतममपहाय डुलिचक्षुषि सहस्राक्षे भैवतो मातुरहल्यायाः ।
शतानन्दः- (सरोषहासम् ।) किमात्थ रे, किमात्थ अस्मदग्र इति ।
विश्वामित्रः-(संप्रणयरोषमिव ।) वत्स गौतम, विरम, विरम शुष्ककलहात् । अतिथिरयमस्माकमुपाध्यायो देशकण्ठस्य । (व्यथमानौ रामलक्ष्मणौ च दृष्ट्वा विहस्य ।) वत्स रामभद्र, धनुर्गृहोपसर्पणमभ्यनुजानाति ते जनकान्वयपुरोधाः ।
रामः-यदादिशन्ति गुरवः । (इति सविनयलज्जाकौतुकं परिक्रम्य लक्ष्मणेन सह निष्क्रान्तः ।)
शौष्कल:-राजर्षे सीरध्वज, धन्योऽसि । पुरा किल परमेश्वरपरिचर्यावदाने निकृत्तेषु नवमूर्धसु
वरं तादृकर्माद्भुतसदृशमप्रेक्ष्य किमपि
प्ररोहद्वैलक्ष्यं पुरविजयिनो येन ददृशे । चाप्यधः ॥' इत्यमरः । तेन हरचापारोपणेन स्ववाहौ या मौवींकिणकालिका प्रत्यञ्चिका. मृतमांसश्यामिका सैव शौर्योष्मभाजां नृपतीनां मुखानि कर्मभूतानि भजताम् । अन्यवीरमुखे श्यामिका भवत्विति भावः । ऊष्मा गर्वः । उद्भान्तो दिङ्मोहग्रस्तः माणिक्यपरिहाणेन रत्नविशेषत्यागेन । 'ओहाक् त्यागे'। 'ओदितश्च' इति निष्ठातकारस्य नत्वम् । गैरिकं मनःशिलादि । पोतो बालकः । डुलि: कच्छपी। 'कछवी' इति ख्याता। डुलिरिव चढूंषि यस्य तस्मिन्सहस्राक्षे इन्द्रे । तस्य हि चक्षुः पिङ्गलं किल । तथा च श्रुतिः'अक्षीणि ते इन्द्र पिङ्गलानि' इति । 'कमठी डुलिः' इत्यमरः । अहल्याया अनुराग इत्यनुषज्यते । अन्वयो वंशः । सविनयमिति कौशिकादेशश्रवणात् । सलज्जमिति सीताविवाहस्मरणात् । सकौतुकमिति धनुर्ग्रहण इति भावः । धन्यः पुण्यवान् । 'सुकृती पुण्यवान्धन्यः' इत्यमरः । अवदानं शुद्धकर्म । निकृत्तं छिन्नम् । वरमित्यादि । तदेव दशमं रावणमुखं त्वयि त्वद्विषयेऽर्थीभवति प्रार्थकं भवति । अभूततद्भावादिना च्विः ।
१. 'परिहारेण'. २. 'दशाननमवमत्य', 'दशग्रीवमप्यवमन्यमानस्य ते'. ३. यदिव'; 'अथवा'. ४. 'तव'. ५. मातुरपि कथमहल्यायाः. ६. 'सरोषाहंकारम्'. ७. 'सप्रणयमिव'. ८. 'दशकंधरस्य'. ९. 'धनुर्ग्रहोप-'.
For Private and Personal Use Only