________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
काव्यमाला। शौष्कल:--(सहासम् ।)
अङ्गिराश्च पुलस्त्यश्च प्रसवौ परमेष्ठिनः ।
पौलस्त्ये ज्ञातिधर्मोऽयं तत्किमाङ्गिरसस्य ते ॥ ४८ ॥ (सामर्षम् ।)
माहेश्वरो दशग्रीवः क्षुद्राश्चान्ये महीभुजः ।
पिनाकारोपणं शुल्कं हा सीते किं भविष्यसि ॥ ४९ ॥ शतानन्दः-(सरोषव्यथम् ।) ब्रह्मन् , ऍवमनेन धनुषा किमपि विनयाधिकारिकमध्याप्यते । यदद्य परममाहेश्वरस्ते रावणोऽपि संवृत्तः ।
शंभोराधारमचलमुत्क्षेप्तुं भुजकौतुकी। माहेश्वरो धनुः ऋष्टुमहो ते दशकंधरः ॥ ५० ॥
(शौष्कलवर्जमॅन्ये स्मयन्ते ।) शतानन्द:-(सरोषावहित्थम् ।) रामभद्र,
तदेतदारोपय चापमीशंप्रकोष्ठभस्मप्रतिरूषितज्यम् ।
शौर्योष्मभाजां भजतां मुखानि खबाहुमौर्वीकिणकालिकैव ।। ५१ ॥ आरोपयिष्यति । लुट् । प्रस्तुतास्फूर्तावर्थान्तरमाह-अङ्गिराश्चेति । प्रसवः पुत्रः। पौलस्त्ये पुलस्त्यनप्तरि रावणे । माहेश्वर इति । दशग्रीवो रावणो माहेश्वरी महेश्वर. भक्तो यतोऽतो न धनुरारोपयिष्यतीति भावः । ननु नारोपयतु नाम तत्किं न सन्त्येबान्ये राजान इत्यत आह-क्षुद्राश्चेति । अथ बलशून्या अपि त एव वरणीयाः, न तु रावण इत्यत आह-पिनाकस्य शिवधनुष आरोपणं शुल्कं पणः । तथा च न तदारोपणयोग्या इति भावः । हा कष्टम् । हे सीते, त्वं किं भविष्यसि । किं वस्तु त्वं भविध्यसीत्यर्थः । यद्वा किंभविष्यसि कुत्सिता भविष्यसि । कुत्सितप्रदानादिति भावः । यद्वाविवाहितैव भविष्यसि । 'किं भविष्यति' इति पाठे सीते किं भविता । तवेति शेषः । विनयाधिकारिकं विनयाधिकारिकसंज्ञमधिकरणं चाणक्ये । तत्र विनय उपदिश्यते । विनयाधिकारयोगात्तत्वम् । 'अत इनिठनौ' । क्रष्टुमाकर्षितुम् । स्मयन्ते ईषद्धसन्ति । शौष्कलक्रोधादाह-तदेतदिति । तस्माद्धेतोरेतच्चापं धनुरारोपयेति योज्यम् । कीदृशम् । ईशस्य शिवस्य प्रकोष्ठभस्मना प्रतिरूषितज्यं मृदितगुणम् । कफोरधो मणिबन्धान्तं यावत्प्रकोष्ठः । 'स्यात्कफोणिस्तु कूर्परः । तस्योपरि प्रगण्डः स्यात्प्रकोष्टस्तस्य
१. 'जाति-'. २. 'सामर्षमाकाशे कर्ण दत्त्वा सहासम्'. ३. 'सरोषाविहित्थम्'. ४. 'किमनेन'. ५. 'कारिकां कारिकामध्या-'. ६. 'ते रावणोऽपि परममाहेश्वर'. ७. 'इतरे'. ८. 'रामभद्र रामभद्र'. ९. 'ऐश-भूषितज्यम्'.
For Private and Personal Use Only