SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ अङ्कः] अनर्घराघवम् । शतानन्दः-ब्रह्मन् , चिराय दत्तमेवोत्तरमस्माभिः । । शौष्कलः—हन्त, राजपुत्रीसमर्पणादन्यत्कीदृशं तत् । शतानन्दः-शृणु । शांभवं चापमारोप्य योऽस्मानानन्दयिष्यति । पूर्णपात्रमियं तस्मै मैथिली कल्पयिष्यते ॥ ४५ ॥ शौष्कल:--(विहस्य ।) शान्तम् । अहह युष्मार्कमप्यमून्यक्षराणि । तेनाङ्गुलीशतनिवृष्टकुबेरशैल कण्ठोक्तदोःकुलिशकन्दलविक्रमेण । माहेश्वरेण महता दशकंधरेण कर्मेदृशं कथमनार्यमधिक्रियेत ॥ ४६ ॥ शतानन्दः-(विहस्य ।) ब्रह्मन् , अयं महाक्षत्रियगोत्रजन्मा दृढप्रतिज्ञो जनकाधिराजः । न चापमारोपयिता दशास्यस्तथापि जानासि यदुत्तरं नः ।। ४७ ॥ भावः । दत्तमेवोत्तरमिति । ईशधनुर्भङ्गरूपः पण एवोत्तरमिति भावः । शतानन्दवचनाभिप्रायमनभिज्ञायाह-राजपुत्रीति । राजपुत्री सीता । समर्पणं दानम् । विवाह इति यावत् । तदुत्तरम् । उत्तरमाह-शांभवमिति । पूर्णपात्रं संतोषदानम् । 'हर्षादुत्सवकाले यदलंकाराम्बरादिकम् । आकृष्य दीयते पूर्णपात्रं पूर्णानकं च तत् ॥' इति हारावली । तस्मै इति 'कुपि संपद्यमाने च' इति चतुर्थी । युष्माकमपीति । रावणं प्रति हरचापारोपणरूपाणीत्यर्थः । रावणस्य हरधनु:समाकर्षणेऽशक्तिमवगन्ध नदाकर्षणे व्याजमुद्भावयति-तेनाङ्गुलीति । विंशतिबाहुत्वादङ्गुलिशतेन निघृष्टो त्रः कुबेरशैल: कैलासस्तेन कण्ठेनोक्तः कथितो दोःकुलिशकन्दलस्य बाहुवज्रप्रकाण्डस्य विक्रमः पराक्रमो यस्य तादृशेन । मह्ता माहेश्वरेणातिमहेश्वरभक्तेन दशकंधरेणेशमनायमनुचितं कर्म सेव्यस्य धनु:समाकर्षणरूपं कथमधिक्रियेत । तथा च गुरोरीश्वरस्य चापारोपणं रावणस्य न युक्तमिति भावः। सोपहासमाह-अयमिति । आरोपयिता १. 'हुम्'. २. 'शृणु' इति पुस्तकान्तरे नास्ति. ३. 'कल्पयिष्यति'. ४. 'विहस्य' इति पुस्तकान्तरे नास्ति. ५. 'शान्तं शान्तम्'. ६. 'अपि' इति पुस्तकान्तरे नास्ति, ७. 'कर्मेदमीदृशमनार्य-'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy