________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
काव्यमाला।
सोऽपि ।
कन्यामयोनिजन्मानं वरीतुं प्रजिघाय माम् ।
पुरोधसा गौतमेन गुप्तस्य भवतो गृहान् ॥ ४२ ॥ विश्वामित्रः-सखे सीरध्वज, पैश्य पिनाकदर्शनोल्लासिकाविसंस्थुलचित्तवृत्तिरिव वत्सो रामभद्रः । जनकः-(विहस्य ।)
किमेतदेवे भगवन्नभिधीये पुनस्तराम् । ___इक्ष्वाकवो विदेहाश्च परवन्तस्त्वया वयम् ।। ४३ ॥ शौष्कल:-भोः सीरध्वज, किमिदमस्माकमाकाशवचनम् , उत दुप्परिच्छेद्य एवायमर्थः । यदुत्तरमपि न प्रतिपद्यसे । पैश्य ।
दातव्येयमवश्यमेव दुहिता कस्मैचिदेनामसौ ___ दोर्लीलामसृणीकृतत्रिभुवनो लङ्कापतिर्याचते । तरिक मूढवदीक्षसे ननु कथागोष्ठीषु नः शासति
त्वद्वृत्तानि परोरजांसि मुनयः प्राच्या मरीच्यादयः ॥ ४४ ॥ प्रार्थनायामेतादृशः पराङ्मुखः सोऽपीत्यर्थः । वरीतुं प्रार्थयितुम् । ‘वृतो वा' इतीटि दीर्घत्वम् । प्रजिघाय प्रहितवान्। 'हि गतौ'। लिट् । खकार्यसाधनाय शतानन्दं स्तुवन्नाहपुरोधसेति । गौतमेन शतानन्देन गुप्तस्य रक्षितस्य । उल्लासितोत्कण्टा तया विसंस्थुला व्याकुला चित्तवृत्तिर्यस्य तादृश इव । परवन्तः पराधीनाः । तथा च त्वदधीना एव वयमित्यर्थः । आकाशवचनमाकाशं लक्षीकृत्य वचनमित्यर्थः । न प्रतिपद्यसे न ददासि । नेदं वचनं दुष्परिच्छेमिति पर्यवसितमाह-दातव्येति । इयं दुहिता सीता कस्मैचिदवश्यमेव दातव्या देया । एनां च लङ्कापतिर्याचते प्रार्थयते यतोऽतो रावणाय देयेलाशयः। सीताप्रदानौपयिकरावणस्तुतिमाह-कीदृशः । दोलीलया भुजक्रीडया मसृणीकृतं श्लक्ष्णीकृतं त्रिभुवनं येन तादृशः । यतस्तादृशोऽपि लङ्कापतिर्याचतेऽतो मूढवत्किमीक्षसे पश्यसि । ननु मूढवदिति वतिप्रत्ययेन सादृश्यमभिहितं तस्य च भेदगर्भत्वेनास्माकममूढत्वं प्रतिपादितं तच्च कुतो ज्ञातमित्यत आह-ननु हेतौ । नोऽस्माकं कथागोष्ठीषु प्राच्याः पुरातना मरीच्यादयो मुनयः परोरजांसि रजसः पराणि । सात्त्विकानीति यावत् । त्वद्वृत्तानि त्वदीयचरितानि शासति कथयन्ति । यद्वा नोऽस्मांस्त्वद्वृत्तानि शासति । शासेर्द्विकर्मकत्वात् । तथा च तादृशस्य तव रावणेतराय सीता दातुं न युक्तति
१. 'पश्य पश्य'. २. 'एवम्'. ३. 'किमस्माकम्'. ४. 'पश्य पश्य'. ५. 'दोःक्रीडा;' 'दोःक्रीडामशकीकृत-'. ६. 'लङ्काधिपः'. ७. 'तथा'.
For Private and Personal Use Only