SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ अङ्कः अनर्घराघवम् । १३३ अपि च । मघोनस्तद्धोरं कुलिशमलसीकृत्य समरे भुनक्ति खाराज्यं त्रिभुवनभटोऽयं दशमुखः । श्रियो नानास्थानभ्रमणरमणीयां चपलता मवच्छिद्य स्वस्मिन्नपि भुजवने पूरयति यः ॥ ४० ॥ जनकः-(शौष्कलं प्रति ।) ब्रह्मन् , सत्यमीहेशो राक्षसराजः । शौष्कल:-राजर्षे जनक, संतुष्टे तिसृणां पुरामपि रिपौ कण्डूलदोर्मण्डली___ क्रीडाकृत्तपुनःप्ररूढशिरसो वीरस्य लिप्सोवरम् । याञ्चादैन्यपराञ्चि यस्य कलहायन्ते मिथस्त्वं वृणु त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं वर्ण्यताम् ॥४१॥ तु शूरत्वमित्यत आह-अपि चेत्यादि । अयं त्रिभुवनभटस्त्रिलोकीवीरो दशमुखो रावणः खाराज्यं स्वर्ग भुनक्ति पालयति । किं कृत्वा । मघोन इन्द्रस्य तत्प्रसिद्धं घोरं भयानकं कुलिशं वज्रं समरे सङ्ग्रामेऽलसीकृत्य निष्क्रियं कृत्वा । यश्च रावणः श्रियो लक्ष्म्या नानास्थानभ्रमणेन रमणीयां चपलतां चलत्वमवच्छिद्यान्यतो व्यावर्त्य स्वस्मिन्खकीये भुजवने पूरयति कुरुते । अपिः संभावनायाम् । तदीयभुजवन एवैकभुजादपरभुजगमनमित्यनेन प्रकारेण श्रियश्वाञ्चल्यम् । यद्वा तदीयभुजाखेव प्रत्येकं वीरश्री: स्थितेति बहुस्थानस्थिततया चाञ्चल्यमिति भावः । 'घोरो भीमे हरेऽपि च' इति विश्वः । 'भटः स्यात्पुंसि वीरे च' इति च । आगमनप्रयोजनं पूरयितुं भूमिमारचयति-संतुष्ट इति । तिसृणां पुरामपि रिपो त्रिपुरारौ महादेवे संतुष्टे सति । राक्षसरिपोरपि राक्षसे वरदानेन रावणस्यातिभक्तिः प्रकाशितेत्यपेः स्वरसः । कण्डूला कण्डूयुक्ता या दोर्मण्डली बाहुसमूहस्तस्याः क्रीडया कृत्तानि च्छिन्नानि पुनरनन्तरं प्ररूढानि जातानि शिरांसि मस्तकानि यस्य तस्य । अनन्तरं च वरं लिप्सोलब्धुमिच्छोर्यस्य रावणस्य मुखानि याजादैन्ये पराञ्चि पराङ्मुखानि । अत एवाभितः सर्वतो मिथोऽन्योन्यं त्वं वृणु त्वं वृण्विति कृत्वा कलहायन्ते कलहं कुर्वन्ति । स दशग्रीवः कथं वर्ण्यताम् । अपि तु कथमपि वर्णयितुं न शक्यत इति । कण्डूलेत्यत्र 'सिध्मादिश्च' इति लच् । तिसृणामित्यत्र 'न तिमृचतस्' इति दीर्घत्वनिषेधः । कलहायन्त इत्यत्र 'शब्दवैरकलह-' इत्यादिना क्यड़ । 'कृत्तं तु वेष्टिते छिन्ने' इति विश्वः । प्रयोजनमाह-सोऽपीति । यः १. 'शतानन्दः'. २. 'ईदृशोऽयम्'. ३. 'लीलालून-'. ४. 'कथ्यताम्'. -~ For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy