________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
काव्यमाला। चक्रे वर्त्म च नागलोकजयिनी यात्रामिव प्रस्तुव
न्यः कैलासमुदस्य कीदृशंमपादानं तु तस्यापदाम् ॥ ३८ ॥ लक्ष्मणः-(सामर्षे जनान्तिकम् ।) आर्य, कथमसौ सहस्रार्जुनवालिभ्यामवलीढशौर्यसारो दुरात्मा रावणः प्रस्तूयते । रामः-वत्स, न वक्तव्यमिदम् । महान्तो हि तादृशाः । किं च । स्यातां नाम कपीन्द्रहैहयपती तस्यावगाढान्तर
स्थामानौ दशकंधरस्य महती स्कन्धप्रतिष्ठा पुनः । सद्यःपाटितकण्ठकीकसकणाकीर्णा यदंसस्थलीः
खेनेभाजिनपल्लवेन मुदितः प्रास्फोटयद्धर्जटिः ॥ ३९ ॥
कसीमनि सङ्ग्रामसीमायां परित्रस्तः सभयः सन्पराञ्चनपि पराङ्मुखोऽपि । अपिविरोधाभासाय । सहस्रनयन इन्द्रः प्रत्यक्षीकुरुते पश्यति । ननु पराङ्मुखः कथं पश्चादवस्थितं प्रत्यक्षीकरोतीत्यत आह-पृष्ठोद्भवैरक्षिभिर्ने त्रैः । सहस्रनयनत्वादेव पृष्ठेऽपि नेत्रसद्भावः । यश्च रावणो नागलोकजयिनी यात्रामिव प्रस्तुवन्कुर्वन्कैलास पर्वतविशेषमुदस्योत्पाट्य वम मार्ग चके, तस्य रावणस्यापदां विपत्तीनां कीदृशमपादानं प्रभवो यस्मादापद्भविष्यति । अपि तु नास्त्येवेत्यर्थः । 'अनीकोऽस्त्री रणे सैन्ये' इति विश्वः । 'आखण्डल: सहस्राक्षः' इत्यमरः । सामर्षमिति । रावणशौर्यश्रवणादिति भावः । अवलीढशौर्यसारो ज्ञातशौर्यधनो गृहीतशौर्यधनो वा । 'सारो बले स्थिरांशे च मज्ज्ञि पुंसि जले धने' इति मेदिनीकरः । नन्ववलीढशौर्यसारत्वात्कुतो महत्त्वमित्यत आहस्यातामिति । तस्य रावणस्यावगाढान्तरस्थामानौ ज्ञातान्तर्बलौ कपीन्द्रहैहयपती वालिसहस्रार्जुनौ स्यातां नाम । ताभ्यां जितो रावण इति न किंचिदेतत् । तथापि तस्य रावणस्य पुनर्महती स्कन्धप्रतिष्ठा कायप्रतिपत्तिः । स्कन्धः कायः, रूपादिपञ्चकं वा, अंसो वा । कुत इत्यत आह-यस्य कायस्य, रावणस्य वा, अंसस्थली: स्कन्धप्रदेशान्धूर्जटिः शिवः खेनात्मनैवेभाजिनपल्लवेन हस्तिचर्माञ्चलेन मुदितो हर्षितः सन्प्रास्फोटयद्वीजयति स्म, संमार्जितवान्वा । कीदृशाः । सद्यस्तत्क्षणादेव पाटिता ये कण्ठास्तासां कीकसकणाभिरस्थिकणाभिः कीर्णा व्याप्ताः । 'रूपादिपञ्चके स्कन्धः कार्येऽसे भूपतावपि' इति विश्वः। 'कीकसं कुल्यमस्थि च' इत्यमरः । नन्वेतावता शिवभक्तत्वं दर्शितम् , न
१. 'उपादानम्'. २. 'अपि कथमसौ बलिसहस्रभुजार्जुनाभ्याम्'. ३. 'एवम्'. ४. 'अपि'.
For Private and Personal Use Only