________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः अनर्घराघवम् ।
१३१ जनकः-खागतं पौलस्त्यपुरोहितस्य । इत आस्यताम् ।
(शौष्कलस्तथा करोति ।) जनक:-अपि कुशलं ते राज्ञो रावणस्य । अथवा ।
विपदा प्रतिकर्तारो यस्योपायैरथर्वभिः ।
त्वादृशाः सन्ति किं तस्य कल्याणमनुयुज्यते ॥ ३७ ॥ शौष्कल:-(विहस्य ।) श्रोत्रिय सीरध्वज, प्रेत्यकरिष्यामैव वयं यदि खभुजमण्डलीमत्तवारणावलीवलयितोरःप्रसादसुस्थितचतुर्दशलोकलक्ष्मीमहान्तःपुरे लङ्कापतौ किमपि प्रेतिकार्यमभविष्यत् । पश्य । ___ यच्चेष्टाः समनीकसीमनि परित्रस्तः पराञ्चन्नपि
प्रत्यक्षीकुरुते सहस्रनयनः पृष्ठोद्भवैरक्षिभिः । कुशलं वा । अपिः प्रश्ने । सोपहासं स्तुतिमाह-विपदामिति । यस्य रावणस्य त्वादृशा अथर्वभिः शान्तिकपौष्टिकमन्त्रैरुपायैर्हेतुभिर्विपदां विपत्तीनां प्रतिकर्तारः प्रतिकारकाः । स्फोटयितार इति यावत् । तस्य रावणस्य कल्याणं किमनुयुज्यते किं पृच्छयते । अपि तु कल्याणमेव तस्येत्यर्थः । प्रतिकार इति तृनि तृचि वा रूपम् । तेन विपदामिति कर्मणि षष्ठी । पक्षे विपदां प्रति विपत्तिं प्रति त्वादृशाः पाप्मानो यस्य कर्तारो विपत्कारकास्तस्य किं कल्याणमनुयुज्यते । अपि तु कदापि न तस्य कल्याणमित्यर्थः । अत्र पक्षे प्रतिर्वीप्सायाम् । विपदाशब्दो भिदादावादन्तः । यद्वा 'टापं चापि हलन्तानाम्' इति भागुरिमतेन टाप् । 'यथा वाचा निशा दिशा' इत्यादिस्त्वेकदेशानुवादः । जनकवाक्यमनवगम्यवाह-श्रोत्रियेति । प्रत्याकरिष्याम अभविष्यदित्यनयोः क्रियातिपत्तौ लुङ् । 'नित्यं तिः' इति मसः सकारलोपः । यदि प्रतिकार्य प्रतिकरणीयमभविष्यद्भवेत्तदा प्रत्यकरिष्यामैव वयम् । प्रतिकार्यमेव नास्तीति भावः । लङ्कापतो कीदृशे । स्वभुजमण्डलमेव मत्तवारणाः समददन्तिनस्तेषामावली समूहस्तेन वलयितो वेष्टितो य उरःप्रासादो हृदयधवलगृहं तत्र सुस्थिता सुखोपविष्टा या चतुर्दशलोकानां लक्ष्मीस्तस्या महान्तःपुरे कोष्टागारे । यद्वा चतुर्दशलोकलक्ष्मीरेव महान्तःपुरं महिषी यस्य तस्मिन् । अन्तःपुरशब्देन तत्रस्था स्त्री लक्षणया भण्यते । भूः, भुवः, स्वः, महः, जनः, तपः, सत्यम् , वायुस्कन्धाश्च सप्तेति चतुर्दशभुवनानीति पुराणम् । 'मत्तवारण आख्यातो धीरैः समददन्तिनि । क्लीवं प्रासादवीथीनां कुन्दवृक्षवृतावपि ॥' इति मेदिनीकरः । 'ख्यगारं भूभुजामन्तःपुरम्' इत्यमरः । तत्किमिन्द्रादितोऽपि न तस्य प्रतिकर्तव्यमस्तीत्यत आह—यच्चेष्टा इति । यस्य रावणस्य चेष्टाः पराक्रमव्यापारान्समनी
१. 'पौलस्त्यपुरोहित' पुस्तकान्तरे एतावदेव. २. 'कश्चित्'. ३. 'राज्ञस्ते'. ४. 'महाक्षत्रियश्रोत्रिय'; 'महाक्षत्रिय'. ५. 'प्रत्यकरिष्यामः'. ६. 'वारणवलयितोरः-'. ७. 'भुवन'. ८. 'लङ्काधिपतौ'. ९. 'प्रतिकर्तव्यम्'. १०. 'स समीक-'.
For Private and Personal Use Only