________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
काव्यमाला। निसर्गोदप्रमिदं च कुमारद्वयम् ।
पार्श्वे त्रयाणामेतेषामृक्सामयजुषामिव ।
रूपाभ्यां विधिमन्त्राभ्यामथर्वेव प्रदीप्यते ॥ ३५ ॥ (विमृश्य ।) आः, नूनं स एव लक्ष्मणद्वितीयो रामहतकः कौशिकमषिमनुप्लवमानो मिथिलामुपस्थितः । (सक्रोधशोकम् ।) हा वत्से सुकेतुनन्दिनि ताडके, कथमीदृशान्मनुष्यडिम्भात्तादृशो दैवदुर्विपाकस्ते संवृत्तः । कष्टमनरण्यवंशजन्मनः क्षत्रियशिशोरनात्मवेदिता ।
सुन्दासुरेन्द्रसुतशोणितसीधुपान___ दुर्मत्तमार्गणनिरर्गलवीरशब्दः । द्रोहं चकार दशकण्ठकुटुम्बकेऽपि
सोऽयं बटुः कुशिकनन्दनयज्ञबन्धुः ॥ ३६॥ भवतु । द्रष्टव्यमस्य भुजाशौण्डीर्यम् । (उपसृत्य ।) अपि सुखिनो यूयं जनकमिश्राः। स्तयोः । 'पुण्यं शोभने त्रिषु' इति मेदिनीकरः । 'व्यञ्जनं तेमने चिह्ने' इति च । उदअस्तेजस्वी। पार्श्व इत्यादि । इदं कुमारद्वयं रूपाभ्यामाकाराभ्यां प्रदीप्यते प्रकाश्यते । यथा विधिमन्त्राभ्यां रूपाभ्यां ग्रन्थावृत्तिभ्यामथर्वा वेदभेदः । प्रकाश्यते तथेत्यर्थः । विधिमन्त्रावथर्वणो रूपे । 'ग्रन्थावृत्तौ भवेद्रूपमाकारलेषयोरपि' इति विश्वः । अथर्ववेदोऽभिचारप्रतिपादकः । कौशिकऋषिमित्यत्र 'ऋत्यकः' इति प्रकृतिवद्भावः । अनुप्लवमानोऽनुगच्छन् । सुकेतुनन्दिनि सुकेतुसुते । संबोधनम् । मनुष्यडिम्भान्मनुष्यशिशोः । 'डिम्भो बालिशबालयोः' इति विश्वः । दुर्विपाको दुष्टो विपाकः । कर्मणो विसदृक्फलमित्यर्थः । 'विपाकः पटले खेदे कर्मणो विसदृक्फले' इति मेदिनीकरः । अनरण्यो राजा दशरथस्य सपिण्डः । स च रावणेन मारित इति तदपकर्षसूचनम् । सुन्दासुरेन्द्रेति । सोऽयं बटुर्ब्रह्मचारी रामो दशकण्ठकुटुम्बकेऽपि रावणस्य प्रशस्तबन्धुवर्गेऽपि द्रोहं मारणं चकार । सुन्दनामासुरेन्द्रः स च ताडकापतिस्तस्य मुतः सुबाहुस्तस्य शोणितमेव रुधिरमेव सीधुर्मद्यं तस्य पानेन दुर्मत्ता अतिमत्ता ये मार्गणा बाणास्तैनिरर्ग. लोऽप्रतिरुद्धो वीररूपः शब्दो यस्य स तथा । 'मैरेयमासवः सीधुः' इत्यमरः । 'कलम्बमार्गणशराः' इति च । शौण्डीर्य सुभटत्वम् । मिश्रा मुख्याः । स्वागतं मुष्टु आगमनं
१. 'चेदम्'. २. 'आः' इति पुस्तकान्तरे नास्ति. ३. 'एषः'. ४. 'मुनिम्'; 'ऋपिम्। इति पुस्तकान्तरे नास्ति. ५. 'मिथिलायाम्'. ६. 'हा' इति पुस्तकान्तरे नास्ति. ७. 'विपाकोऽयं ते वृत्तः'. ८. 'अनरण्यजन्मनः'. ९.'बटोः'. १०.'गर्वः'. ११. 'भुजाशौटीयम्'.
For Private and Personal Use Only