________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः] अनर्घराघवम् । .
१२९ (नेपथ्येऽर्धप्रविष्टः।) पुरुषः-दशाननपुरोहितः शौकलो महाराज दिदृक्षते । शतानन्दः-(सोद्वेगम् ।) आः, आगच्छतु ।
(पुरुषो निष्क्रान्तः ।) रामः-(सव्यथं जनान्तिकम् ।) वत्स लक्ष्मण, कथमन्तरितोऽयमनेन दुरात्मना राक्षसेन कामारिकार्मुकपरिचर्यामहोत्सवः । लक्ष्मणः-आर्य, न केवलमयम्-(इत्य|क्ते हसति ।) (रामः सप्रणयरोषस्मितं तैमपाङ्गेन पश्यति ।)
(प्रविश्य ।) शौष्कलः-(प्रत्येकमवलोक्यात्मगतम् ।) कथमत्रैव जनकशतानन्दाभ्यां पुरस्कृतो विश्वेषामस्माकममित्रो विश्वामित्रः । (विचिन्त्य ।) तिष्ठतु । कोऽयं हस्तदक्षिणेन । (दृष्ट्वा ।) अये, कावेतौ क्षत्रियब्रह्मचारिणौ ।
पुण्यलक्ष्मीकयोः कोऽयमनयोः प्रतिभासते ।
मौज्यादिव्यञ्जनः शान्तो वीरोपकरणो रसः ॥ ३४ ॥ 'ईषदुःसुषु-' इति खल् । 'राक्षसः कौणपः क्रव्यात्' इत्यमरः । 'ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने' इति च । 'पृषत्कबाणविशिखाः' इत्यपि । नेपथ्येऽर्धप्रविष्टो जवनिकापटोद्घाटितार्धशरीरः । दिदृक्षते द्रष्टुमिच्छति । 'ज्ञाश्रुस्मृदृशां सनः' इति तङ् । सोद्वेगमिति । कथमन्तरितमनेन शौष्कलेन धनुराकर्षणाद्रामाय सीताप्रदानमिति भावः । आः कोपे, कष्टे वा । सव्यथमिति । झटिति कार्मुकपरिचर्यामहोत्सवप्रतिबन्धात्सीताविवाहप्रतिबन्धादिति भावः । कामारिः शिवः । परिचर्याकर्षणसेवा । न के. वलमिति । किं तु तज्जन्यसीताविवाहोत्सवोऽपीति शेषः । अपाङ्गेन नेत्रप्रान्तेन । पुरस्कृतोऽग्रतः कृतः । विश्वेषां सर्वेषामस्माकमित्यभेदेनान्वयः । हस्तदक्षिणेन स्वहस्तस्य दक्षिण दिशा । पुण्यलक्ष्मीकयोरिति । अनयो रामलक्ष्मणयोः शान्तो रसो वीरोपकरणो वीररसानुबद्धः प्रतिभासते । वीर उपकरणमनुबन्धो यत्र । वीररसहेतुरित्यर्थः । मौज्यादि व्यञ्जनं चिह्न यस्य तादृशः । कीदृशयोः । पुण्या शोभना लक्ष्मीश्च कान्तिर्ययो
१. 'पुरुषः । पुरुषः'. २. 'शौष्कलो नाम'. ३. 'आः' इति पुस्तकान्तरे नास्ति. ४. 'सरोषव्यथम्'. ५. 'त्रैयक्षकाण्डासन-'. ६. 'आर्य' इति पुस्तकान्तरे नास्ति. ७. 'तम्' इति पुस्तकान्तरे नास्ति. ८. 'शौष्कलः । शौष्कलः'. ९. 'आत्मगतम्' इति पुस्तकान्तरे नास्ति. १०. 'अमित्रम्'. ११. 'अये' इति पुस्तकान्तरे नास्ति. १२. 'सोऽयम्'. १३. 'वीरोपकरणम्'.
अन० १२
For Private and Personal Use Only