________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
काव्यमाला। सन्त्येव विश्व वनाभयदानशौण्डाः
क्षोणीभुजः परममी तुं न रामभद्रः ॥ ३१ ॥ लक्ष्मणः-(स्वगतम् ।) कथमुपाध्यायेनैतदभिहितं यदस्मि वक्तुकामः ।
जनकः-भगवन्, सत्यमचिन्त्यो मणिमन्त्रौषधीनामिव रघुकुलकुर्टम्बकानामनुभावः । परमेतद्रवीमि । गिरीशेनाराद्धस्त्रिजगदवजैत्रं दिविषदा
मुपादाय ज्योतिः सरसिरुहजन्मा यदसृजत् । हृषीकेशो यस्मिन्निषुरजनि मौर्वी फणिपतिः
पुरस्तिस्रो लक्ष्यं धनुरिति किमप्यतद्भुमिदम् ॥ ३२ ॥ शतानन्दः-आः किमनया पुनःपुनः पिनाकप्रशस्तिपञ्जिकया। तदेत. कौशिकमेव प्रमाणयन्तो बहु मन्यामहे । अपि च किमशक्यं रामभद्रस्य ।
उत्पादयन्कमपि कोणपकोटिहोमं
तेजोहुताशनसमिन्धनसामिधेनीम् । यस्ताडकामकृत बालसखैः पृषत्कै
रीषज्जयः स्फुटमनेन दशाननोऽपि ॥ ३३ ॥ नियतिविधिः' इत्यमरः । 'शौण्डस्तु कुशले मत्ते' इति धरणिः । गिरीशेनेति । इत्यनेन प्रकारेणेद धनुः किमप्यनिर्वचनीयस्वरूपमद्भुतमाश्चर्यजनकम् । अस्तीति शेषः । इति कुत इत्यत आह-यद्धनुर्गिरीशेन महादेवेनाराद्ध आराधितः सन्सरसिरुहजन्मा ब्रह्मा दिविषदां देवानां ज्योतिरुपादाय गृहीत्वासृजत्सृष्टवान् । कीदृशम् । त्रिजगतामवजैत्रमवसादकम् । जेतृशब्दात्प्रज्ञाद्यण् । यस्मिन्धनुषि हृषीकेशो विष्णुरिषुर्बाणोऽजनि जातः । कर्तरि चिण । फणिपतिर्नागराजो मौर्वी गुणः । तिस्रः पुरो नगराणि त्रिपुरदैत्यरूपाणि लक्ष्य वेध्यम् । अजनीति सर्वत्र क्रियान्वयः । तिसृणां पुरामेकरूपत्वेन लक्ष्यत्वालक्ष्यऽप्येकत्वमवधेयम् । भवतु यादृक्तादृक्कठिनं धनुः कौशिकवाक्यादेव निर्गीतं रामो व्याकरिष्यतीत्याह-----आः किमनयेत्यादि । आः कोपेऽनास्थायां वा । प्रशस्तिपञ्जिकया स्तुतिविस्तारेण । प्रमाणयन्तः प्रमाणं कुर्वन्तः । उत्पादयन्निति । यो रामः कमप्यनिर्वचनीय कौणपकोटिभी राक्षसकोटिभिर्होममुत्पादयन्कुर्वन् । बालस्य सखायो बालसखाः । 'राजाहःसखिभ्यष्टच्' । पृषकैर्वाणैस्ताडकां राक्षसीविशेष तेज एव हुताशनो वह्निस्तस्य समिन्धने ज्वालने सामिधेनीमग्निसंधुक्षणऋचमकृत कृतवान् । अहो हेतोरनेन रामेण स्फुटं निश्चितं दशाननोऽपि रावणोऽपीषज्जयोऽकृच्छ्रजयः । सुजय इति यावत् ।
१. 'भुवनत्रय-'. २. 'न तु'. ३. 'उपाध्यायेनैत-'. ४. 'कडम्बकानाम्'. ५. 'पुन:पुनः' इति पुस्तकान्तरे नास्ति. ६. 'तदेनं कौशिकमेव'. ७. 'कालसखैः'.
For Private and Personal Use Only