________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः] अनर्घराघवम् ।
१२७ भागधेयमस्माकं येन भगवता विश्वामित्रेण नाथवन्तो वयं मैथिलीमेतस्मै रघुकुलकुमाराय प्रतिपाद्य चिराय कृतार्थीभवामः ।
(रामो लज्जते।) जनकः—किं च भगवन,
येषां चापसमर्पितत्रिभुवनच्छिद्रापिधानं व्रतं __जातं रोहितमेव केवलमपज्याबन्धमैन्द्रं धनुः । तेऽपि प्रेक्ष्य पुरा शरासनमिदं मौर्वीकिणश्यामिका
कस्तूरीसुरभीकृतानबिभरुयर्थ भुजान्भूभुजः ॥ ३० ॥ विश्वामित्र:-(विहस्य ।) सखे सीरध्वज, कथं महापुण्यराशिमात्मानमवमन्यसे ।
त्वद्भागधेयमपि तादृशमुत्सवाना
मेतादृशां वयमपि प्रसमीक्षितारः । नरं किं दत्ते दास्यतीत्याकुलोऽस्मीत्यन्वयः । दीर्घमुष्णं च निःश्वस्येति । अतिमधुरमूर्तिना रामेणातिभीषणमिदं धनु रोपणीयमेवेति भावः । प्रतिपाद्य दत्त्वा । येषामिति । ऐन्द्रमिन्द्रसंवन्धि धनुरपगतो ज्याबन्धः प्रत्यञ्चिकाबन्धो यस्य तादृशं सद्रोहितमेव ऋज्वेव जातम् । कुत इत्यत आह-कीदृशम् । येषां राज्ञां चापे धनुषि समर्पित त्रिभुवनस्य च्छिद्रमुपद्रवस्तस्यापिधानमाच्छादनम् । दूरीकरणमिति यावत् । तदेव व्रत येन धनुषा तादृशं यत इत्यर्थः । तेऽपि भूभुजो राजानः पुरा पूर्वमिदं शरासनं धनुः प्रेक्ष्य दृष्ट्वा व्यर्थ यथा स्यादेवं भुजानबिभरुर्धारयन्ति स्म । आरोपणानध्यवसायादिति भावः । कीदृशान् । मौर्वी प्रत्यञ्चिका तया किणो मृतमांसपिण्डस्तस्य श्यामिका कृष्णत्वं सैव कस्तूरी तया सुरभीकृतान् । अन्यापि कस्तूरी कमपि सुरभयतीति ध्वनिः । अबिभरुरित्यत्र भृञो लङ् । शपः श्लुः । द्विवचनम् । 'भृञामित्' इतीत्त्वम् । अभ्यस्तद्वारको जुस् । 'तदेव ऋजु रोहितम्' इत्यमरः । रामं स्तोतुं जनकमाश्वासयन्नाहत्वद्भागधेयमिति । तव भागधेयमपि भाग्यमपि तादृशमत्युत्सवप्रसवशीलम् । एतादृशां धनुरारोपणसीतापरिणयादीनामुत्सवानां वयमपि प्रसमीक्षितारो द्रष्टारः । वयमप्येतादृगुत्सवयोग्या एवेत्यर्थः । प्रकृते संगमयन्नाह सन्त्येवेति । विश्वानि समस्तानि भुवनानि चतुर्दश । शौण्डः कुशलः ख्यातो वा । एतादृशा नृपाः सन्त्येव । अमी पुनर्न रामभद्रः । न राम इत्यर्थः । रामस्यान्यादृशी शक्तिरिति भावः । 'भागधेयं भाग्यं स्त्री
१. 'एतस्मै रघुकुलकुमाराय सीताम्'. २. 'चरितार्थी-'. ३. 'किं च' इति पुस्तकान्तरे नास्ति. ४. 'विहस्य' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only