________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
काव्यमाला । शतानन्दः-शान्तं शान्तम् ।
दुर्लञ्चमीश्वरशरासनमप्रमोच्य___ शुल्कग्रहस्त्वमसि सर्वमिदं तथैव । किं त्वस्य राघवशिशोः सहजानुभाव
गम्भीरभीषणमतिस्फुटमेव वृत्तम् ॥ २८ ।। जनकः-(मुनि प्रति ।) भगवन्कौशिक, चिरमपि विकल्पयन्न भवद्विरामभिधेयमद्यापि निश्चिनोमि ।
विश्वामित्रः-(विहस्य ।) तदुपदर्शय कार्मुकमैन्दुशेखरं रामभद्र एव व्याकरोतु ।
रामः-(संहर्षं स्वगतम् ।) कथमलीकविकल्पैरात्मानं प्रमोहयामि । नन्वयं ममैव कौतुकं पूरयितुमैश्वरं धनुरभ्यर्थयते भगवान् । (जनकं च दृष्ट्वा सविमर्शम् ।) अहह ।।
बोलेन संभाव्यमिदं च कर्म ब्रवीति च प्रत्ययितो महर्षिः । इति ध्रुवं मन्त्रयते नृपोऽयं दत्ते किमत्रोत्तरमाकुलोऽस्मि ॥ २९ ॥
जनकः-(मुहर्त मिव स्थित्वा दीर्घमुष्णं च निःश्वस्य ।) भगवन् , क तादृशं रोपणं वा न स्यात् । अथवैतदारोपणं नाम मम पणो जर्जरो जीर्णोऽदृढो वा स्यात् । मिथ्या भवेदिति यावत् । जनकमाश्वासयितुनाह-दुर्लचयमिति । दुर्लयं दुर्गमम् । त्वमप्यप्रमोच्योऽत्याज्यः पणो यस्य तादृशः । इदं सर्व धनुर्दुर्लङ्घयत्वादि तथैव तथ्यमेव । नात्र कुत्राप्यन्यथात्वशङ्केति भावः । किं त्वस्य राघवशिशो रामस्य स्वाभाविको योऽनुभावस्तेन गम्भीरं दुरवगाहं भीषणं च वृत्तं व्यापारस्ताडकामथनादिरूपमतिस्फुटमेव विदितमेव । तथा च येन तत्तादृगतिभीषणं कर्माकारि तस्यावश्यं धनुरारोपण नाशक्यमिति भावः । विकल्पयन्नानापक्षं समुद्भावयन् । विहस्येति । मुनेस्तात्पर्य जनकेन किंचिदपि न ज्ञातमिति भावः । ऐन्दुशेखरमिन्दुशेखरसंबन्धि । व्याकरोतु विवृणोतु । अलीकं मिथ्या । बालेनेति । इदं धनुरारोपणाख्यं कर्म बालेन रामेण संभाव्यं कर्तव्यमिति प्रत्ययितः प्रत्यययुक्त आप्तो वा। 'आप्तः प्रत्ययितस्त्रिषु' इत्यमरः । महर्षिः कौशिको ब्रवीति । इति पूर्वार्धोक्तमयं नृपो जनको ध्रुवं निश्चितं मन्त्रयत आलोचयति । अत्रो
१. 'शान्तम्'. २. 'विमृशन्न भवद्गिरामद्यापि'. ३. 'तदुपसर्पय कार्मुक-'; 'कार्मुकमैन्दुशेखरं दर्शय'. ४. 'स्वगतम्'; 'स्वगतं सहर्षम्'. ५. 'मोहयामि'; 'प्रमोदयामि'. ६. 'कौतूहलम्'. ७. 'वत्सेन'. ८. 'तु'.
For Private and Personal Use Only