________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनर्धराघवम् ।
३ अङ्कः]
जनकः -- (सखेदस्मितम् ।) गोत्रस्य प्रथमपुरुषस्तेजसामीश्वरोऽयं येषां धर्मप्रवचनगुरुर्ब्रह्मवादी वसिष्ठः ।
Acharya Shri Kailassagarsuri Gyanmandir
१२५
ये वर्तन्ते तव च हृदये सुष्ठु संबन्धयोग्यास्ते राजानो मम पुनरसौ दारुणः शुल्कसेतुः ॥ २५ ॥ रामलक्ष्मणौ - ( सेविमर्शम् ) कथमस्मदीयाः कथाः प्रस्तूयन्ते । विश्वामित्रः – ( सस्मितम् 1) राजर्षे, यदि शुल्कसंस्थैव केवलमन्तरा - यस्तन्न किंचिदेतत् ।
जनकः—(सखेदं विमृशन्नपवार्य ) भगवन्नौङ्गिरस,
यद्विदन्नपि विदेहनन्दिनीपाणिपीडनविधेर्महार्षताम् । एवमाह मुनिरेष कौशिकस्तेन मुह्यति चिराय मे मनः ॥ २६ ॥ तदेव स्थाणवीयं वा धनुः स्यादिदमीदृशम् । एतदारोपणं नाम पणो वा मम जर्जरः ॥ २७ ॥
For Private and Personal Use Only
1
त्याद्याशङ्क्येति भावः । सस्मितमिति । अहो अस्य विश्वामित्रस्य भ्रमो यज्जानन्नपि धनुरारोपणपणम् ‘हृदयम्' इत्याद्याहेति भावः । धनुरारोपणपणं कौशिकं स्मारयितुमाह-यगोत्रस्येति । यगोत्रस्य रामभद्रादिगोत्रस्यायं तेजसामीश्वरः सूर्यः प्रथमपुरुषः । येषां धर्मप्रवचने धर्मभाषणे वसिष्टो गुरुः । कीदृशः । ब्रह्मवादी तत्त्वकथकः परब्रह्मतत्त्वज्ञो वा । ये च तव हृदये वर्तन्ते । वरत्वेनेति शेषः । ते राजानः सुष्ठु यथा स्यादेवं संबन्धयोग्याः संबन्धार्हाः । ननु यद्येवं तर्हि कथं न क्रियत इत्यत आह-मम पुनरसौ शुल्कसेतुः पणबन्धो दारुणः कठोरः । प्रतिबन्धक इति यावत् । तथा च यो धनुराकर्षणकर्ता स एव वरणीय इति भावः | शुल्कस्य संस्था व्यवस्था । य एतद्धनुराकर्षति तेनैव परमियं वोढव्येति । न किंचिदिति 1 रामो धनुरारोपयिष्यत्येवेति भावः । सखेदमिति । विश्वामित्रवचनतात्पर्यबोधादिति भावः । कौशिकवाक्यतात्पर्यमजानञ्शतानन्दद्वारा तत्तात्पर्य बोद्धुमाह-यद्विदन्निति । यद्यस्माद्विदेहनन्दिन्याः सीतायाः पाणिपीडनविधेः पाणिग्रहणविधेर्महार्घतां दुर्लभत्वं बहुमूल्यत्वं वा । धनुरारोपणस्यान्तरायत्वात् विदन्नपि जानन्नप्ययं कौशिकः । एवं 'यदि शुल्कसंस्थैव' इत्यादि पूर्वोक्तमाह वदति तेन हेतुना मम मनश्चिराय चिरसमयं मुह्यति । मोहमुपैतीत्यर्थः । विदन्निति । 'विदेः शतुर्वसुः' इति वखादेशस्यानित्यत्वम् । मोहमपास्य विकल्पयन्नाह—तदेवेति । तदेवेदं स्थाणवीयं महादेवसंबन्धि धनुरीदृशं दुरा
१. ‘(सविस्मयम् ।) कथमेभिरस्मदीयाः '. २. 'सखेदं विमृष्यापवार्य च'. ३. 'शतानन्द'.