________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
काव्यमाला। शतानन्दः-राजर्षे, एवमेतत् । किं पुनर्न दीक्षिष्यमाणाः क्रुध्यन्तीति रक्षितारं क्षत्रियमुपाददते । जनक:-(सहर्षे रामलक्ष्मणौ निर्वर्ण्य जनान्तिकम् ।) भगवशतानन्द, भवति न तथा भानोः शिष्ये गुरौ रसतो न च
स्मयमपि मुनौ विश्वामित्रे गृहानधितिष्ठति । दशरथसुतावेतौ दृष्ट्वा यथोच्छसितं मनः
शिथिलयति मे प्रत्यग्ज्योतिः प्रबोधसुखासिकाम् ॥ २३ ॥ शतानन्दः-राजर्षे वैदेह, एवमेतत् । ममापि राजपुत्राविमौ साक्षात्कुर्वतो वत्से सीतोर्मिले न हृदयादवरोहतः । जनकः-(विश्वामित्रं प्रति ।) भगवन् ,
इदं वयो मूर्तिरियं मनोज्ञा वीराद्भुतोऽयं चरितप्ररोहः ।
इमौ कुमारौ बत पश्यतो मे कृतार्थमन्तर्नटतीव चेतः ॥ २४ ॥ विश्वामित्र:-(सोत्तासम् ।) सखे सीरध्वज, हृदयमेवामन्त्रयख किमर्थ कृतार्थमसीति ।
जीर्णान्यक्षराणि यासां ताः । त्रिशङ्ककथा प्रागेव ( ३५ पृष्ठे ) लिखिता । गोपायितारो रक्षितारः । किं पुनः किं त्वित्यर्थः । प्रसक्तानुप्रसक्ति निवारयन्प्रस्तुतं प्रस्तोतुं भूमिमारचयति-भवतीति । एतौ दशरथसुतौ दृष्ट्वा उच्छृसितं सन्मम मनः कर्तृ यथा प्रत्यग्ज्योतिःप्रबोधसुखासिकामात्मज्ञानसुखावस्थानं शिथिलयति मन्दीकरोति । तथा भानोः सूर्यस्य शिष्ये याज्ञवल्क्ये मम गुरौ रसतोऽनुरागान भवति । 'वसतः' इति पाठे गुरौ गुरुसमीपे वसतस्तिष्ठतो मम मनस्तथा नोच्छ्रसितं नोल्लसितमित्यर्थः । न च विश्वामित्रे मुनौ खयमपि गृहानधितिष्ठति सति तथा भवति । तथा चात्मज्ञानेऽपि मम मनोऽधुना न लगतीति भावः । अवरोहतो लम्बेते । धातोरनेकार्थत्वात् । जनको रामलक्ष्मणौ वरत्वेन हृदि निधायोक्तिभझ्या विश्वामित्रमाह-इदमिति । इदं वय इत्यत्र ययोरिति योज्यम् । वीरो रसस्तेनाद्भुतश्चित्रः । चरितप्ररोहश्चरित्रस्य विस्तारोऽङ्कुरो वा । यद्वा वीराणामद्भुत आश्चर्यकरः । अन्तरभ्यन्तरे नटतीव नृत्यतीव । हर्षातिशयादिति भावः । कुमाराविति वरत्वौपयिकं विशेषणम् । आमन्त्रयख पृच्छ । सखेदमिति । महादेवधनुरारोपणपणं विस्मृत्यैव तत्रानास्थामास्थाय विश्वामित्रो वदति 'हृदयमेवामन्त्रयख' इ.
१. 'दीक्षमाणाः. २. 'सोत्प्रासहासम्'.
For Private and Personal Use Only