________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः]
अनर्घराघवम् ।
विश्वामित्रः– (रामं निर्दिश्यै ।) वत्स आङ्गिरस, ये चत्वारो दिनकर कुलक्षत्रसंतानमल्लीमालाम्लानस्तबकर्मधुरा जज्ञिरे राजपुत्राः । रामस्तेषामचरमभवस्ताडका कालरात्रि
प्रत्यूषोऽयं सुचरितकथाकन्दलीमूलकन्दः ॥ २१ ॥ शतानन्द: – ( लक्ष्मणं निर्दिश्य ।) अयं चापरो लक्ष्मणः | दिया भगवद्वसिष्ठप्रसूतं क्षत्रकुलमृज्यते ।
जनक:- - ( विहस्य 1 ) साधु भगवन्, अस्मादृशीषु प्रजासु प्रविश्य क्रीडसि ।
क्रोधाग्नौ पुरुहूतहुंकृतिपराभूतत्रिशङ्कत्रपासंपातज्वलिते जगत्रयमयीं त्वय्याहुतिं जुह्वति ।
संभ्रान्तोपनतस्य नाटितजरावैक्लव्यशीर्णाक्षराः
प्रत्यूहाय बभूवुरम्बुजभुवो देवस्य चाटूक्तयः ॥ २२ ॥ तमपि नाम भैगवन्तं यजमानमन्ये गोपायितारः ।
१२३
वरत्वौपयिकं रामपरिचयं कारयितुमाह-ये चत्वार इति । दिनकरकुले सूर्यवंशे ये क्षत्राः क्षत्रियास्तेषां संतानः संततिः समूहो वा स एव मही पुष्पविशेषस्तस्या या माला तस्या अम्लानो निर्मलो यः स्तबको गुच्छस्तद्वन्मधुरा मनोहरा ये चत्वारो राजपुत्रा रामभरतलक्ष्मणशत्रुघ्नरूपा जज्ञिरे जातास्तेषामयमचरमभव आद्योत्पन्नो रामः । क्वचित् 'क्षत्रसंतानवली - ' इति पाठः । क्षत्रसंतान एव वल्ली लता तस्या माला इत्यर्थः । ताडकैव कालरात्रिः श्यामरजनी तस्याः प्रत्यूष इव प्रत्यूषः प्रभातम् । तस्मात्तस्या अपायात् । अन्यापि रात्रिः प्रत्यूषेण नाश्यत इति ध्वनिः । सुचरितस्य या कथा सैव कन्दली वृक्षभेदस्तस्य मूलं प्रधानं कन्दः । मूलमित्यर्थः । तमधिकृत्यैव सुचरितकथा प्रवर्तत इति भावः । ‘प्रत्यूषोऽहर्मुखम्' इत्यमरः । ऋज्यते वर्धते । क्रोधाग्नाविति । पुरुहूतस्येन्द्रस्य या हुंकृतिहुँकारस्तया पराभूतः पराङ्मुखो यस्त्रिशङ्कुस्तेन या त्रपा लज्जा सैव संपात युगान्तवातस्तेन । यद्वा लज्जायाः संपातेन पतनेन समूहेन वा ज्वलिते देदीप्यमाने कोवाग्नौ जगत्रयमयीमाहुतिं त्वयि जुह्वति सति अम्बुजभुवो देवस्य ब्रह्मणश्चाटूक्तयः प्रत्यूहाय बभूवुर्वृत्ताः । संभ्रान्तस्य सभयस्य सोद्वेगस्य वा सत उपनतस्योप समीपे नतस्य नम्रस्य । सृष्टिविनाशावश्यंभावमाशङ्क्य तस्य संभ्रान्तत्वम् । नाटितं कृतं जरावैक्लव्यं तेन शीर्णानि
For Private and Personal Use Only
१. 'निर्दिशन् '; 'निदर्शयन्' २. 'रुचयः' ३ ' वर्धते'; 'ऋद्ध्यति'. ४. 'वैकल्यशीर्णाक्षरा:'; 'वैक्लव्यजीर्णाक्षरा: ' ५. 'भवन्तम्'.