________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
काव्यमाला।
___ राज्ञा पङ्किरथेन यत्र सकलखर्वासिसर्वातिथौ
__ स खेनैव फलप्रदः फलमपि खेनैव नारायणः ॥ २० ॥ तत्किमेतावेव तौ दाशरथी यौ किल रामलक्ष्मणौ ताडकामथनमङ्गलोद्धातवितीर्णदिव्यास्त्रमन्त्रपारायणेन भगवतैव विनीतौ वैतानिकस्य कर्मणश्छिद्रापिधानदक्षिणया भगवन्तमुपासांबभूवतुः। विश्वामित्रः-(सकौतुकम् ।) अथ किम् ।
(जनकस्तौ संस्नेहबहुमानं पश्यति ।) शतानन्दः—तदनयोः कतरो राँमभद्रः कतरश्च लक्ष्मणः । रथेन दशरथेन राज्ञा पुत्रार्थे मखो यज्ञश्चक्रे कृतः । कीदृशेन । जगति संसार एकः श्रेष्टो जाङ्घिकोऽतिवेगवान्यो ययुरश्वमेधीयोऽश्वः स एवोद्दामोद्भटा भ्रमन्ती कीर्तिर्यस्य तेन । 'ययुरश्वोऽश्वमेधीयः' इत्यमरः । चतुर्होत्रा एव चातुर्होत्राः । स्वार्थे प्रज्ञादित्वादण् । तेभ्यो वितीर्ण दत्तं विश्वं समस्तं वसुधाचक्र पृथ्वीमण्डलं येन तेन । वेदचतुष्टयप्रयोगाद्धोत्रचतुटयं यत्र यज्ञे । स नारायणो देवः स्खेनैव स्वयमेव फलप्रदो यज्ञफलदायी स्वेनैव खयमेव फलमपि । अभूदिति शेषः । खेनैव रामादिरूपेण जातत्वात् । कीदृशे यज्ञे । सकलाः समस्ताः स्वर्वासिनो देवाः सर्वप्रकारेणातिथय आगन्तुका यत्र तस्मिन् । यद्वा सकलाः समस्ताः स्वर्वासिनो देवाः सर्वो महेश्वरश्चातिथिर्यत्र । वासवदत्तायाम् ‘गौरीव सर्वप्रिया' इति श्लेषेण सर्वशब्दस्य महेश्वरवाचकत्वबोधनात् । अन्यथा श्लेषभङ्गप्रसङ्गः । न चास्मिन्व्याख्याने सकलस्वर्वासिपदेन महेश्वरस्यापि लाभात्पृथक्तस्योपादानं पौनरुक्त्यमावहतीति वाच्यम् । गोबलीवर्दन्यायेन तदुपादानात् । यद्वा सकलाः कलासहिताः प्रत्यक्षा एव खर्वासिनो देवा इति पूर्ववदपरम् । यद्वा सकलस्वः समस्तवर्ग वासयन्तीति सकलस्वर्वासिनो देवाः । सर्वेऽतिथयो यस्मिन्मखे तत्रेत्यर्थः । 'अतिथिः कुशपुत्रे स्यात्पुमानागन्तुकेऽपि च' इति मेदिनीकरः । ताडकामथनेन नाशेन यन्मङ्गलम् । यद्वामथनमेव मङ्गलम् । तस्योद्धात उपक्रमे वितीर्ण दत्तं दिव्यास्त्रमन्त्रस्य पारायणमाश्रयो येन । यद्वा दिव्यास्त्र मन्त्ररूपं पारायणमभीष्टम् । यद्वा परायणं साकल्यम् । 'उद्घातस्तु पुमान्पादस्खलने समुपक्रमे' इति मेदनीकरः । 'पारायणमभीष्टं स्यात्तत्पराश्रययोरपि' इति च । 'साकल्यासङ्गवचने पारायणतुरायणे' इत्यमरः । विनीतौ शिक्षितौ संमानितौ वा । वैतानिकस्य यज्ञसंबन्धिनः । छिद्रस्य विघ्नस्यापिधानं खण्डनं तदेव दक्षिणा तयोपासांबभूवतुः सेवितवन्तौ । 'दयायासश्च' इत्याम् । सस्नेहबहुमानमिति । रामलक्ष्मणयोः सौकुमार्यदर्शनात्ताहगतिदुष्करताडकाताडनश्रवणाचेति भावः । तदनयोरिति । कतरः कः ।
१. 'मङ्गलोपोद्धात-'. २. 'भवतैव'. ३. 'भवन्तम्'. ४. 'सकौतुकम्' इति पुस्तकान्तरे नास्ति. ५. सस्नेहं पश्यति'. ६. 'रामः'.
For Private and Personal Use Only