________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः] अनर्घराघवम् ।
११९ शतानन्दः-भगवन्कौशिक, एवमीदृशाः खल्वमी त्रिभुवनमहनीयमहिमानो मनीषिणः । जनकः-(सवैलक्ष्यस्मितम् ।)
निर्माय कार्मणमृचामघमर्षणीना___मुन्मार्जनीर्जगदघानि तवाद्य वाचः । श्रोतुं चिरप्रणयिकौतुकमस्ति चेतो
दुःखाकरोति पुनरेष ममार्थवादः ॥ १६ ॥ तद्विरम । (इति शिरस्यञ्जलिं घटयति ।)
विश्वामित्रः-(सस्मितमस्याञ्जलिमुद्घाटयन् ।) सखे सीरध्वज, संहियतामञ्जलिः । अमी तूष्णीभूताः स्मः । कात्यायनीकामुककार्मुकारोपेणपणप्रणयप्रवीणेन तु दुहितुः पत्या संप्रत्यपर्युषितप्रतिज्ञो भूयाः ।
लक्ष्मणः-(अपवार्य ।) आर्य, परस्परेषां पौरुषोत्कर्षप्रशंसारमणीयः पावनोऽयममीषां समवायः । नित्यानविनाशिनः । विश्वामित्रं निवर्तयितुमाह-निर्मायेति । अद्य तव वाचः श्रोतुं मम कौतुकमस्ति । ममेत्युभयान्वयि । ममैषोऽर्थवादः स्तुतिः पुनश्चेतः कर्म दुःखाकरोति । चेतः कीदृशम् । चिरप्रणयि चिरानुबन्धि । वाचः कीदृश्यः। अघमर्षणीनां पापापहारिकाणामृचां कार्मणमाभिचारिकरूपं कृत्वा जगदघानि जगत्पापान्युन्मार्जनीः शोधयन्तीः । त्वद्वाचामेवादरात्तासामृचामादरं लोका न कुर्वत इति भावः । मर्षणीत्यत्र करणे ल्युट् । 'कार्मणं मन्त्रतत्रादि योजने कर्मठेऽपि च' इति धरणिः । उद्घाटयन्प्रकाशयन् । ननु घटादित्वान्मित्संज्ञायां मितां ह्रखत्वेन भाव्यम् । मैवम् । 'घट संघाते' इति चौरादिकस्यामितोऽयं प्रयोगः । यथा 'कमलवनोद्घाटनं कुर्वते ये' इति सूर्यशतके । यद्वोद्धटनमुद्घाटः । भावे घञ् । 'तत्करोति-' इति णिजन्ताच्छतृ । तूष्णीभूताः स्मो मौनिनो भूताः स्मः । 'मौने तु तूष्णीं तूष्णीकाम्' इत्यमरः । कात्यायनी गौरी तस्याः कामुकः स्वामी हरस्तस्य यत्कार्मुकं धनुस्तदारोपणमेव पणस्तत्प्रणये प्रवीणेन कुशलेन । 'दुहितुःपतिना' इति पाठे दुहितृस्वामिनेत्यर्थः । 'ऋतो विद्यायोनिसंबन्धेभ्यः' इति षष्ठ्या अलुक् । 'पतिः समास एव' इति नियमाद्धिसंज्ञायां नाभावः । अपवायेति । 'रहस्यं कथ्यतेऽन्यस्य स्मृतं तदपवारितम्' इति भरतः । पौरुषं पुरुषार्थख्यातिस्तया य उत्कर्षस्तस्य प्रशंसा प्रशस्तिस्तया रमणीयो रम्यः समवायः समूहः । लक्ष्मणवचनमनुमोद
१. 'सविलक्ष-'. २. 'रोपणप्रवीणेन'. ३. 'पावनोऽयमृषीणाम्'.
For Private and Personal Use Only