________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
काव्यमाला।
विश्वामित्र:-(मुहूर्त निर्वर्ण्य च ।) निजाय तस्मै गुरवे यतीनां जैत्राय विश्राणितगोसहस्रम् । तं गोसहस्राधिपतेः प्रशिष्यमुपास्महे मैथिलमातिथेयम् ॥ १४ ॥
जनकः-(सप्रश्रयम् ।) भगवन् , यदन्यत्किचिदभिदधाति तत्र प्रभविष्णुर्भवान् । तत्रभक्तः सहस्रमयूखान्तेवासिनो योगीश्वरादध्ययनमिति महीयसीयमस्माकं यशःपताका ।
विश्वामित्र:-(विहस्य ।) भो महायोगिन् , किं याज्ञवल्क्यो जनकः किमेवं न वः स्वरूपं कवयोऽपि विद्युः । प्रवाहनित्यानधिकृत्य युष्मान्सहस्रशाखाः श्रुतयः प्रथन्ते ॥ १५ ।।
वा । 'अवदानं वृत्तकर्म शुद्ध कर्म च कीर्तितम्' इति विश्वः । शतपथो वेदः । शतशाखत्वात्तस्य । शतपथकर्ता याज्ञवल्क्यः शतपथप्रकाशकः । प्रणाय्यायाभिलाषशून्याय । मुमुक्षव इति यावत् । इदं तु 'प्रणाय्योऽसंमतौ' इति ण्यदन्तं निपातितम् । 'प्रणाय्योऽभिलाषशून्यः स्यात्' इति हारावली । अन्तेवासिने शिष्याय । 'छात्रान्तेवासिनौ शिष्ये' इत्यमरः । वाजसनेयो यजुर्वेदशाखीयः । निजायेति । निजाय खीयाय गुरवे याज्ञवल्क्याय । जैत्राय जयशीलाय । जेतैव जैत्रः । प्रज्ञादित्वात्स्वार्थेऽण । विश्राणितं दत्तम् । 'श्रण दाने' । गवां सहस्रं गोसहस्रम् । गोसहस्राधिपतेः सूर्यस्य । 'गोशब्दः पशुभूम्यंशुवाग्दिगर्थः' इति शाश्वतः । प्रशिष्यं शिष्यशिष्यम् । याज्ञवल्क्यस्य सूर्यशिष्यत्वात् । अस्य च तच्छिष्यत्वात् । उपास्मह उपगता भवामः । आतिथेयमतिथी साधुम् । ‘पथ्यतिथिवसतिखपतेर्ड' । यदन्यत्किचिदिति । जामातृसंबन्धीति भावः । प्रभविष्णु: प्रभावशील: । योगीश्वराद्याज्ञवल्क्यात् । विहस्येति । अतिगूढतात्पर्यसमानविषयकोत्तरश्रवणादिति भावः । किं याज्ञवल्क्य इति । याज्ञवल्क्यः किमेवमस्तु, जनको वा किमेवमस्तु, इति वो युष्माकं स्वरूपं कवयो वाल्मीकिप्रभृतयोऽपि न विद्युर्न जानन्ति । याज्ञवल्क्यो वा जनको वेति न कश्चिद्विशेष इति भावः । एवमिति समान्योक्तेः क्लीबता । विद्युरिति 'विद ज्ञाने' । विध्यादि लिङ् । 'झेर्जुस्' । युष्मानधिकृत्य त्वामाधारीकृत्य । सहस्रशाखाः श्रुतयःप्रथन्ते ख्याता भवन्ति । 'प्रथ प्रख्याने'। शाखा वेदविभागः । श्रुतिरिह सामवेदः । स एव सहस्रशाखः । यजुर्वेदस्तु शतशाखः।ऋग्वेद एकविंशतिशाखः । श्रुतय इति बहुवचनं शाखाबहुत्वात् । अवयवधर्मस्यावयविन्युपचारात् । समुदायसमुदायिनोरभेदाद्वा । युष्मान्कीदृशान् । प्रवाहेण गुरुशिष्यपरम्परया
१. 'च निर्वर्ण्य'. २. 'अभिदधासि'. ३. 'योगीश्वराद्भगवतो याज्ञवल्क्यात्'. ४. 'महतीयमस्माकम्'; 'इयमस्माकं महती'.
For Private and Personal Use Only