________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
काव्यमाला।
कञ्चकी-(विहस्य ।) वत्से, संकीर्ण वैयसि खल्वियं वर्तते । अत्र हि
मनोऽपि शङ्कमानाभिर्बालाभिरुपजीव्यते ।
अषडक्षीणपाङ्गुण्यमन्त्री मकरकेतनः ॥ ६ ॥ कलहंसिका-(सलज्जम् ।) अज, रमणीअं मन्तेसि । सव्वम्स वि अणुहवसंवादिणी दे वाआ । कञ्चकी-किं च वत्से,
तदात्वत्प्रोन्मीलन्म्रदिमरमणीयात्कठिनतां __ निचित्य प्रत्यङ्गादिव तरुणभावेन घटितौ । स्तनौ संबिभ्राणाः क्षणविनयवैयात्यमसृण
स्मरोन्मेषाः केषामुपरि न रसानां युवतयः ।। ७ ॥ पुनरपि ताभिः ऋजुकाभिर्निबध्यमाना लज्जितुमपि लजते' इति च्छाया।] अत्र ऋजुकाभिर्बालत्वादकुशलाभिः । निर्बध्यमानाभ्यर्थ्यमाना । लज्जितुमपि लज्जते । उत्पन्नभावात् । संकीर्णे बाल्ययौवनमिश्रे । खलु यतः । ननु यदि मिथुनविषयकं तासां ज्ञानं नास्ति, तत्कथं ताभ्यस्तस्या लज्जेत्यत आह-अत्र हीत्यादि । यतोऽत्र वयसि मनोऽपि शङ्कमानाभिर्मनसोऽपि शङ्कां कुर्वाणाभिर्बालाभिश्चतुर्दशवर्षवयस्काभिर्मकरकेतनः कंदर्प उपजीव्यते सेव्यते । अत्र वयस्यत्यन्तनिगूढो मदनोत्सवो भवतीति भावः । कीदृशः । न विद्यन्ते षडक्षीणि यत्र तदषडक्षीणम् । षड्गुणा एव पाडण्यम् । संधिविग्रहादिको मन्त्रः । स्वार्थे ष्यञ् । अनयोः कर्मधारयः । तयोर्मन्त्री। तथा च यत्र तृतीयगोचरता नास्ति तन्मन्त्रे परं मन्त्री काम इति भावः । 'अषडक्षीणो यस्तृतीयाद्यगोचरः' इत्यमरः । 'अषडक्षाशितंग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः' । 'संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः' इत्यमरः । सलज्जमिति । वालाभिरिति वहुत्वनिर्देशात्स्वामप्युद्देश्यामाशङ्कयेति भावः । 'आर्य, रमणीयं मन्त्रयसे । सर्वस्याप्यनुभवसंवादिनी ते वाकू' [इति च्छाया ।] अत्र मन्त्रयसे वदसि । तदात्वेति । युवतयस्तरुण्यः केषां रसानां शृङ्गारादीनां मधुराखादादीनां वा उपरि न वर्तन्ते । अपि तु सर्वेषामपि । कीदृश्यः। क्षणं व्याप्य विनयश्च वैयात्यं च ते ताभ्यां विनयधाष्ट्याभ्यां मसृणो मन्दो मधुरो वा स्मरोन्मेषो यासां ताः । वैयात्यं धार्यम् । 'अन्तस्थमध्यं वैयात्यम्' इति शब्दभेदः। स्तनौ संबिभ्राणा धारयन्त्यः पोषयन्त्यो वा । कीदृशौ । तरुणभावेन तारुण्येन प्रत्यगात्सर्वावयवात्कठिनतां निचित्य समाहृयैव घटितौ । प्रत्यङ्गात्काठिन्य वर्तुलीकृत
१. 'खल्वियं वयसि वर्तते'; 'वर्तते बाला'. २. 'मनो विशङ्कमानाभिः'. ३. 'किं च' इति पुस्तकान्तरे नास्ति. ४. 'विचित्य'.
For Private and Personal Use Only