________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः]
अनर्घराघवम् । कलहंसिका-अज, एवं ण्णेदम् । अज्जओसित्ति सिढिलीकिदलज्जा संपदि जेव्व अणुहूदं किंपि णिवेदेमि । (संस्कृतमाश्रित्य ।)
अनाकूतैरेव प्रियसहचरीणां शिशुतया _वचोभिः पाञ्चालीमिथुनमधुना संगमयितुम् । उपादत्ते नो वा विरमति न वा केवलमियं
कपोलौ कल्याणी पुलकमुकुलैर्दन्तुरयति ॥ ५ ॥ कञ्चकी-(हसर्षम् ।) दिष्ट्या चिरस्य जीवद्भिरस्माभियौवनवती वैत्सा जानकी दृष्टा । (तस्मितम् । ततस्ततः ।
कलहंसिकातदो अ पुणो पुणो वि ताहिं उज्जुआहिं णिब्बन्धिज्जमाणा लज्जिदूं बि लज्जेदि । दुर्मनीभूयते । इति जानकी जानातीत्यर्थः। तस्याः कर्तव्याकर्तव्यनिश्चयो जात इति हर्षः। दुर्मनीभूयत इति दुर्मनःशब्दाच्चिप्रत्यये कृते 'अर्मनश्चक्षु-' इति सूत्रेण सलोपः । 'वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात्' इत्यमरः । कृतं यौवनावतरणविधेयं मङ्गलं यत्र तानि । अङ्गकानीत्यल्पार्थे प्रशंसायां वा कन् । 'आर्य, एवमेतत् । अर्जकोऽसीति शिथिलीकृतलज्जा संप्रत्येवानुभूतं किमपि निवेदयामि' [इति च्छाया । ] इहार्जकः पितुः पिता पितामहः। यद्वार्जकोऽर्जनकर्तासि । 'अज्जा सीदा' इति पठे आर्या सीता। शिथिलीकृतलजेत्यर्थः । 'अज्जो सि' इति पाठ आर्योऽसि । इत्येवं मन्दीकृतलज्जाहं प्रत्यक्षोपलब्धं किमपि कथयामीत्यर्थः । संस्कृतमाश्रित्येति । 'संस्कृतभाषाचाराः प्रायो नाट्येषु न स्त्रियः श्लाघ्याः । क्वचिदपि तपःप्रभावाद्विदग्धतावोधनाच्च शस्यन्ते ॥' इति भरतमतेन वैदग्ध्यताख्यापनाय स्त्रियः संस्कृतभाषणम् । यद्वा 'चेटी प्राकृतभाषिणी स्याच संस्कृतभाषिणी' इति नियमाभावादेव संस्कृतभाषितम् । यदलौकिककथनसमार्जनाय अर्जकोऽसीत्याशङ्कितोद्धाररूपं समार्जनं तदाह-अनाकूतैरिति । इयं सीता प्रियसहचरीणां प्रियसखीनां वचोभिः करणभूतैः पाञ्चालीमिथुनं कृत्रिमपुत्रिकायुगलं संगमयितुं मेलयितुं नोपादत्ते न गृह्णीते । लजाप्राचुर्यात् । न वा विरमति । तद्रहणे विरक्ता भवति । कामवशीकृतचित्तत्वात् । तत्किं करोतीत्येव न किमपीत्यत आहइयं कल्याणी सीता केवलं पुलकमुकुलैः करणैः कपोलौ कर्मभूतौ दन्तुरयति निम्नोन्नती करोति । सात्त्विकभावात् । दन्तुरशब्दात् 'तत्करोति-' इति णिच् । वचोभिः की. दृशैः । अनाकूतैरेव । न विद्यत आकूतमभिप्रायो यत्र तैः । भावशून्यरित्यर्थः । शिशुतया बालकत्वेन हेतुना। तासां शिशुत्वेन तत्कर्मानभिज्ञत्वात् । विरमतीति 'व्याङ्परिभ्यो रमः' इति परस्मैपदम् । कल्याणीति गौरादित्वान्डीए । तदो अ इति । ततश्च पुनः
१. 'वत्सा वैदेही'; 'वत्सापि'.
For Private and Personal Use Only