________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११२
काव्यमाला |
कञ्चुकी – वत्से, अस्मानपि तर्कोऽयं तरलीकरोति । तथाहि । पूर्णेऽपि कर्मणि हतेष्वपि राक्षसेषु विज्ञाय मैथिलतामपि वीर्यशुल्काम् ।
बालं पितुः प्रियममुं रघुराजपुत्रमेतावतीं भुवमृषिः कथमानिनाय ॥ ४ ॥
कलहंसिका – (स्मरणमभिनीय । सविषादम् 1) अज्ज, पउत्तिविसेसलम्भेण दुम्मणायमाणमत्ताणं पञ्चालिआकेलिबाबारेण विणोदअन्तीं भट्टदारिअं पेक्खिअ उव्विण्णाए कारणं परिवज्जिहुं आगदाए अज्जम्स दंसणेन मए विसुमरिदं इमिणा उण दे रक्खसणामग्गहणेन सुमराविद
।
कञ्चुकी – (सविषादम् ।) वत्से, कीदृशी सा प्रवृत्तिः, या तव भर्तृदारिकामपि दुर्मनाययति ।
कलहंसिका - सुणादु अजो । जधा किल सीदादेवीं पत्थिदुं दसग्गीवपुरोहिदो आअदोत्ति ।
कञ्चुकी – (तत्रावज्ञां नाटयन्सहर्षम् ) कथमेतावदपि कार्यं वत्सा जानकी जानाति । यदनेनोदन्तेन दुर्मनीभूयते । नूनमिदानीमस्याः कृतावतरणमङ्गलान्येङ्गकानि यौवनस्य पन्थानमीक्षन्ते ।
Acharya Shri Kailassagarsuri Gyanmandir
अज,
[इति च्छाया ।] आरोपणव्यवसाय आकर्षणकर्म । तर्कों वितर्कः । पूर्णेऽपीति । पूर्णे समाप्ते । कर्मणि यज्ञे । वीर्य पराक्रमः शुल्कः पणो यस्यां ताम् । एतावतीं दूरतराम् । पउत्तिविसेसेति । 'आर्य, प्रवृत्तिविशेषलम्भेन दुर्मनायमानमात्मानं पाञ्चालि - काकेलिव्यापारेण विनोदयन्तीं भर्तृदारिकां प्रेक्ष्य उद्विग्नया कारणं प्रतिपत्तुमागतया आर्यस्य दर्शनेन मया विस्मृतमेतेन पुनस्ते राक्षसनामग्रहणेन स्मारितास्मि' [इति च्छाया |] अत्र प्रवृत्तिर्वार्ता । लम्भो लाभः । दुर्मनायमानमिति दुर्मना इवाचरति । 'कर्तुः क्यङ् सलोपश्च' इति क्यङि सलोपे दिर्घत्वे च रूपम् । पाञ्चालिका 'पुतळी' इति प्रसिद्धा । ' पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता' इत्यमरः । प्रतिपत्तुं ज्ञातुम् । अर्थात्तस्या उन्मनस्कत्वम् । राक्षसनामग्रहणम् ' हतेष्वपि राक्षसेषु' इत्यनेन । दुर्मनाययति व्यथयति । दुर्मनसं करोतीति ' तत्करोति -' इति णिच् । 'णाविष्टवत्प्रातिपदिकस्य' इति टिलोपः । जधेति । 'यथा किल सीतादेवीं प्रार्थयितुं दशग्रीवपुरोहित आगत इति' [इति च्छाया |] यदनेनेति । अनेनोदन्तेन वार्तया राक्षससंबन्धरूपेण १. 'दुर्मनीभवति'. २. 'अङ्गानि '.
For Private and Personal Use Only