________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः] अनर्घराघवम् ।
.१११ कलहंसिका-जधा अह्मघरे भट्टदारिआ सीदा उम्मिला अ मण्डवी सुदकित्ती अ । (विचिन्त्य । हेर्ष निरूपयन्ती।) कधं महाकुलप्पसूदा एदे वि कुमारआ । (मुहूर्तमिव स्थित्वा । दीर्घमुष्णं च निःश्वस्य ।) कुदो अह्माणं ईरिसो भाअधेओ।
कञ्चकी-भवति, मा विषीद । सर्व भविष्यति देवब्राह्मणांनुग्रहात् । कलहंसिका—तदो तदो।।
कञ्चकी-ततश्च वृद्धान्तःपुराणामभ्यर्थनया तौ विकर्तनकुलकुमारको दृष्ट्वा निवर्तमानः पुरोधसा गौतमेनाहमाहूय राजपुत्रीणां सौभाग्यदेवताराधनाय संविहितोऽस्मि ।
कलहंसिका—(संहर्षम् ।) अज, सव्वजणमणीसिदाणुऊलं विअ तस्थभवदो सदाणन्दम्स वअणम् । कञ्चकी-वत्से, एवमेतत् । न खल्वतय॑मगम्भीरमाङ्गिरसो ब्रवीति ।
कलहंसिका-ता किं मण्णेध संकरसरासणारोवणव्ववसाएण राएसिणो जणअस्स पडिण्णासाहसं णिव्वाहेस्सदि राहवो । सीता ऊर्मिला च माण्डवी श्रुतकीर्तिश्च' [इति च्छाया । 'राजा भट्टारको देवस्तत्सुता भर्तृदारिका' इत्यमरः । हर्ष निरूपयन्तीति । चतुर्णा रामादीनां वरत्वेन स्मरणानन्तरं सीताप्रभृतीनां च परिणययोग्यत्वेन म्मरणादिति भावः । कधमिति । 'कथं महाकुलप्रसूता एतेऽपि कुमारकाः' [इति च्छाया । तथा च वरयोग्या इति भावः । दीर्घमुष्णं चेति । रामादीनामतिविमलकुलप्रसूतत्वान्महार्यतामुत्प्रेक्ष्येति भावः । 'कुतोऽस्माकमीदृशं भागधेयम्' [इति च्छाया । येन रामादयो वरा भवेयुरिति भावः । तदो तदो। 'ततस्तत:' [इति च्छाया ।] कथ्यतामिति शेषः। वृद्धान्तःपुराणां वृद्धमहादेवीनाम् । विकर्तनः सूर्यः । पुरोधसा पुरोहितेन । गौतमेन शतानन्देन । सौभाग्यदेवताराबनाय गौरीपूजनाय । संविहित आज्ञापितः । अजति । 'आर्य, सर्वजनमनीषितानुकूलमिव तत्रभवतः शतानन्दस्य वचनम्' [इति च्छाया।] अत्र मनीषितमभिलषितम् । तत्रभवान्मान्यः । खलु निश्चये । आङ्गिरसः शतानन्दः । ता किमिति । 'तत्किं मन्यध्वे शंकरशरासनारोपणव्यवसायेन राजर्षेर्जनकस्य प्रतिज्ञासाहसं निर्वाहयिष्यति राघवः'
१. 'सहर्षम्'. २. 'अनुशासनात्'. ३. 'समागतौ तौ विकर्तनकुलकुमारौ । तो किल'. ४. 'संप्रहितोऽस्मि'; 'संप्रति प्रहितोऽस्मि'. ५. 'हर्षे नाटयति'. ६. 'न खल्वयनतथ्यं वदति'; 'न खल्वगम्भीरमाङ्गिरसः'.
For Private and Personal Use Only