________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
कञ्चुकी—(विमृश्य ।) तत् िन कथ्यते । वत्से, विदितमेव भवत्याः, यथा तत्तादृगद्भुतं दारकद्वयमादाय भगवान्कौशिको यजमानं महाराज सीरध्वजमुपस्थितः । __ कलहंसिका-अध इं। अज, पहवं णामधेअं च ताणं सुणि, अस्थि मे कोदूहलम् । कञ्चुकी-वत्से, कथयामि ।
त्रयस्त्रिंशत्कोटित्रिदशमयमूर्तेर्भगवतः
सहस्रांशोर्वशे जयति जगदीशो दशरथः । यदस्त्रैरस्निग्धैरसुरयुवतिश्वासपवन__ प्रकोपे सिद्धे न स्पृशति शतकोटिं शतमखः ॥ २ ॥ इमौ तस्य विशांपत्युरात्मजौ रामलक्ष्मणौ ।
ययोर्भरतशत्रुघ्नावनुजौ द्वन्द्वचारिणौ ॥ ३ ॥ यूयम्' [इति च्छाया । आगता इति शेषः । 'प्रश्नाख्यानयोश्च' इति पञ्चमी । 'स्त्रीणां तु प्राकृतं प्रायः' इति भरतानुशासनात्स्त्रीणां प्राकृतभाषणम् । विदितं ज्ञातम् । 'मतिबुद्धिपूजार्थेभ्यश्च' इति क्तः । भवत्या इति 'क्तस्य च वर्तमाने' इति षष्टी । दारकद्वयं बालकद्वयम् । 'दारको बालकेऽपि स्यात्' इति मेदिनीकरः । कलहंसिकावाक्ये-'अथ किम् । आर्य, प्रभवं नामधेयं च तयोः श्रोतुमस्ति मे कौतूहलम्' [इति च्छाया ।] इह प्रभवं कुलम् । प्रभवत्यस्मिन्निति । प्रथमे प्रश्न उत्तरमाह-त्रय इति । भगवतः सहस्रांशोः सूर्यस्य वंशे जगदीशो दशरथो जयतीति संबन्धः । कीदृशस्य । त्रयस्त्रिंशत्कोव्यो ये देवास्तन्मयी मूर्तिः शरीरं यस्य तस्य । एतेन भगवतः सर्वदेवमयत्वेन दशरथस्य कुलीनत्वं प्रतिपादितम् । यदस्त्रैर्दशरथास्त्रैरस्निग्धैः कठिनैरसुरयुवतीनां श्वासपवनस्य प्रकोप आधिक्ये सति शतमख इन्द्रः शतकोटिं वज्रं न स्पृशति । असुरनाशस्यानेनैव कृतत्वात् । त्रयस्त्रिंशदित्यत्र 'त्रेस्त्रयः' इति त्रयादेशः । युवतिरित्यत्र 'यूनस्तिः'। द्वितीयप्रश्न उत्तरयति-इमाविति । तस्येत्यनेन विवाहप्रयोजकीभूतं महावंशप्रसूतत्वं शूरत्वं च सूचितम् । विशांपत्युरिति विशां मनुष्याणाम् । 'विशो वैश्यमनुष्ययोः' इति विश्वः । अनुजौ कनिष्टौ। द्वन्द्वचारिणौ सहगामिनौ।युगनद्धवाहनावित्यर्थः । अत्र यद्यपि रामलक्ष्मणयोरेव श्रवणाकाङ्क्षायां तयोरेव नामकथनं युक्तम् , तथापि प्रसङ्गान्माण्डव्याः श्रुतकीर्तेश्च परिणयसूचनार्थमुक्तं भरतशत्रुघ्नाविति । जधेति । 'यथास्मद्गृहे भर्तृदारिका
१. (विमृश्य ।) तत्' इति पुस्तकान्तरे नास्ति. २. 'विदितं भवत्यापि'; विदितं न भवत्यापि'. ३. 'यत्तागद्भुतम्'. ४. 'कुमारद्वयमादाय कौशिकः'. ५. 'जगतीशः'.
For Private and Personal Use Only