________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः] अनर्घराघवम् ।
१०९ तृतीयोऽङ्कः ।
(ततः प्रविशति कञ्चकी ।) कञ्चकी--(जरावैक्लव्यविसंस्थुलानि ऋतिचित्पदानि दैत्त्वा आत्मानं प्रति सखेदोपालम्भम् ।)
गात्रैर्गिरा च विकलश्चटुमीश्वराणां ___कुर्वन्नयं प्रहसनस्य नटः कृतोऽस्मि ।
तत्त्वां पुनः पलितवर्णकभाजमेनं
___ नाट्येन केन नटयिष्यति दीर्घमायुः ॥ १ ॥ (पुरो विलोक्य ।) अये सीतापादमूलोपजीविनी कलहंसिका ।
(प्रविश्य ।) कलहंसिका-अज, पणमामि । कञ्चकी-वत्से, कल्याणिनी भूयाः । कलहंसिका-अज, चिरेण कुदो तुझे ।
पिनाकारोपणसीतापरिणयादिरूपवाक्याथै सूचयितुं कञ्चुकिनः प्रवेशमाह-ततः प्रविशतीति । कञ्चकी अन्तःपुराधिकृतः । 'अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः । सर्वकार्यार्थकुशलः कञ्चकीत्यभिधीयते ॥ जरावैक्लव्ययुक्तेन विशेद्गात्रेण कञ्चकी ।' इति भरतः। अन्तःपुरे त्वधिकृतः स्यादन्तवंशको जनः । सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ॥' इत्यमरः । विसंस्थुलानि स्खलितानि । चिरतरसेवादुःखविकलः सन्नात्मानं निन्दयनाह–गारिति । हे आत्मन् , त्वं प्रहसनस्योपहास्यतायाः, अथ च हास्यप्रधाननाट्यस्य, नटो नर्तकः कृतोऽसि । गात्रैः शरीरैर्गिरा वाण्या च विकलो निष्क्रियः सन्नीश्वराणां चटुं चाटुम् । प्रियभाषितमिति यावत् । कुर्वनेतद्दीर्घमायुः कर्तृ पुनरपि पलितवर्णकभाजं जराशौक्लयवन्तम् , अथ च पलितमेव वर्णक खटिकादि तद्वन्तम्' त्वां केन नाट्येन नटयिष्यति । अपि तु सर्वेणैव । नट नृत्ये घटादिः। अन्योऽपि नटः प्रहसनमङ्कद्वयारब्धं नृत्यति । शरीरैर्मायामयैर्वाण्या च तादृश्या ईश्वराणां प्रेक्षकाणां चाटुं करोति । वर्णकेन हरितालादिना संयुक्तो भवतीति ध्वनिः । 'पलितं जरसा शौक्लयम्' इत्यमरः । 'चटुश्चाटौ पिचण्डे च' इति मेदिनीकरः । 'प्रहसनमपि प्रहासे रूपकभेदे च परिहासे' इति च । उत्तरस्य द्वितीयसाध्यत्वात्कलहंसिकाप्रवेशं सूचयितुमाह-पुरोविलोक्येति । 'आर्य, प्रणमामि' [इति च्छाया।] 'आर्य, चिरेण कुतो
१. 'विसंष्ठुलानि'. २. 'गत्वा'. ३. 'न त्वाम्'; 'कृत्वा'. ४. 'विभाव्य च'. ५. 'सीतापादोपजीविनी'; 'सीतापादोपसेविनी'; 'सीतापादपद्मोपजीविनी'.
For Private and Personal Use Only