________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला। रामः- (सरोषस्मितम् ।) कथमन्यदेव किमपि प्रहसनं सूत्रयति भवान् । (मुनिं प्रति ।) भगवन् इक्ष्वाकुवंशगुरो, यदभिरुचितं भवते ।
(इति परिक्रम्य निष्क्रान्ताः सर्वे ।) इति कौमारविक्रमो नाम द्वितीयोऽङ्कः ।
महत्वादार्या । यद्वा आर्या अन्वेष्टव्या । 'ऋ गतौ' । 'ऋहलोर्ण्यत्' । प्रहसनं हास्यप्र. धानं नाट्यम् । 'शृङ्गारहास्यबहुलं शान्ताद्भुतरसान्वितम् । व्यङ्कमारभटीहीनं प्राह प्रहसनं मुनिः ॥' इति भरतः । 'असूचितस्य पात्रस्य प्रवेशो नैव युज्यते' इति भर. तमताद्वक्ष्यमाणप्रहसनसूचनमिदम् । इक्ष्वाकुवंशगुरो इत्यादेशकर्तव्यतौपयिकं संबोधनम् । भवते तुभ्यम् । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानता । कुमार एव कौमारः । प्रज्ञादित्वात्स्वार्थिकोऽण् ॥ इति समस्तप्रक्रियाविराजमानरिपुराजकंसनारायणभवभक्तिपरायणश्रीहरिनारायणपदसमलंकृतमहाराजाधिराजश्रीमद्धैरवसिंहदेवप्रोत्साहितवैजौलीग्रामवास्तव्यखौआलवंशप्रभवश्रीरुचिपतिमहोपाध्यायविरचिताया
मनर्घराघवटीकायां द्वितीयोऽङ्कः ।
१. 'सासूयस्मितम्' इति पाठः. २. 'अन्यदेव प्रहसनं सूत्रयसि'; 'सूचयति भवान्' इति पाठः. ३. 'कुलगुरो'; 'गोत्रगुरो' इति पाठः. ४. 'यदभिरुचितं ते'; 'यदभिरुचितं भवते तक्रियताम्' इति पाठः.
For Private and Personal Use Only