________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः] अनर्घराघवम् ।
१०७ रामः-यत्र पवित्रमाश्चर्यद्वयं जनाः कथयन्ति । सकलराजदुराकर्षमैन्दुशेखरं धनुः, लाङ्गलमुखोल्लिखितविश्वंभराप्रसूतिरगर्भसंभवा मानुषी। विश्वामित्र:-(विहस्य ।) अथ किम् । रामः-(सकौतुकम् ।) ततः किं तस्याम् । विश्वामित्र:
असौ सीरध्वजो राजा यो देवायुमणेरपि । ___ अध्यैष्ट याज्ञवल्क्यस्य मुखेन ब्रह्मसंहिताम् ॥ ८७ ॥ तस्य संन्यस्तशस्त्रस्य पुराणराजर्षेर्जनकवंशजन्मनो दीक्षाविलोपशङ्का पर्याकुलयति माम् । तदेतमायुष्मन्तौ, विधिशेषमस्मदीयं समाप्य सहैव मिथिलामुपतिष्ठामहे ।
रामः—(सहर्षमपवार्य ।) वत्स लक्ष्मण, ममापि तस्मिन्नतरुणरोहिणीरमणचूडामणिपाणिप्रणयिनि शरासने चिरस्य कौतुकमस्ति ।
लक्ष्मण:-(सपरिहासम् ।) आर्यायामयोनिर्जन्मनि राजकन्यकायामपि ।
मरः । रामस्यैवोत्कण्ठां वर्धयन्नाह–असाविति । सीरध्वजो जनकः । द्युमणे: सूर्यात्। 'आख्यातोपयोगे' इत्यपादानता । अध्यष्टाधीतवान् । 'इङ् अध्ययने' । लुङ् सिच् आट वृद्धिश्च । ब्रह्मसंहितां तत्त्वज्ञानोपदेशवेदभार्ग वेदान्तम् । याज्ञवल्क्यमुखेन याज्ञवल्क्यद्वारा । याज्ञवल्क्येन सूर्यादधीतं ततो जनकेन । तथा च सूर्यप्रशिष्योऽयमित्यर्थः । तथापि किंतु तस्यामित्याशङ्का न निवर्तितेत्यत आह तस्येत्यादि । तत्किं स न रक्षाक्षम इत्यत आह-संन्यस्तं त्यक्तम् । 'असु क्षेपणे' । पुराणश्चिरंतनः । जनकवंशजन्मेति । तस्यापि जनक एव नाम । दीक्षा यज्ञोपनयनम् । एतमागच्छतम् । युवामिति शेषः । 'इश् गतौ' । आयूर्वः । लोट । आयुष्मन्ताविति संबोधनम् । अपवार्य निभृतमित्यर्थः । 'रहस्यं कथ्यतेऽन्यस्य स्मृतं तदपवारितम्' इति भरतः । अतरुणो बालो यो रोहिणीरमणश्चन्द्रः स चूडामणिर्यस्य स शिवः । शरासनं धनुः । चिरस्य चिरम् ।
१. 'दुराधर्षम्' इति पाठः. २. 'उत्खातविश्वंभरायाः' इति पाठः. ३. 'मानुषी च' इति पाठः. ४. 'एष' इति पाठः. ५. 'तस्य च न्यस्त-'; 'तस्य विन्यस्त-' इति पाठः. ६. 'तदेतस्मादादायायुष्मन्तौ'; 'तदेनमायु-' इति पाठः. ७. 'मखमस्मदीयं परिसमाप्य' इति पाठः. ८. 'ममाप्यतरुण-'; 'ममापि तरुण' इति पाठः. ९. 'बाणासने' इति पाठः. १०. 'जन्मनि च राजकन्यायाम्' इति पाटः.
For Private and Personal Use Only