________________
Shri Mahavir Jain Aradhana Kendra
१०६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
विश्वामित्र: - ( सस्नेहबहुमानमालिङ्ग्य ।) वत्स रघुनन्दन, इत्थमेव प्रकृष्टकर्त्रभिप्रायक्रियाफलवतो विधीन् ।
प्रयुञ्जानास्त्वया वीर पैरिपाल्यामहे वयम् ॥ ८६ ॥
रामः - (खगतम् 1 ) शिरसा गृहीतमाचार्यवचनम् ।
विश्वामित्रः - ( समरधूलिधूसरं रामस्य कॅपोलमुन्मार्जयन् ) यत्सत्यममुना नक्तंचरव्यतिकरेण प्रियसुहृदा सीरध्वजेन वितन्यमाने वैताने कर्मणि कम्पितमिव मे हृदयम् ।
रामः -- ( सगौरवम् ।) भगवन्, क एष सीरध्वजो नाम यमद्य ते त्रिभुवनदुर्लभोऽयं प्रियसुहृच्छब्दप्रयोगः कमपि महिमानमारोपयति । विश्वामित्रः-- वत्स, शृणोषि विदेहेषु मिथिलां नाम नगरीम् ।
1
त्र्त्ये । सकलनयनानीत्यर्थः । यद्यपि जन्यजनकरूपसंबन्धोपाधिना तथा कर्तुमर्हति तथाप्यत्रोपाधिं विनापि युक्तमाचरतीत्याह — तत्सोमः समञ्जसमीहते युक्तं चेष्टते । कीदृशः । शचीसहचरस्येन्द्रस्य चरुस्थाली हव्यान्नभाण्डम् । इन्द्रभक्ष्यामृतस्याधारत्वात् । अखिलसुरश्रेण्यां साधारणः प्रणयो यस्याः साखिलसुरश्रेणी साधारणप्रणया । चरुस्थालीविशेषणम् । अयं तु सर्वदेवानां प्रतिपदादिक्रमेण भक्षणात्सोमत्वमवलम्बत इति भावः । सोमपद एव च्छलम् । लताभेदश्चन्द्रश्च सोमः । 'सोमः सोमलतायां च चन्द्रे च' इति विश्वः। अतिगुरुकार्यकरणादौद्धत्यपरिहाराय सलज्ञमिति । प्रकृष्टेति । हे वीर, त्वया वयं परिपाल्यामहे रक्षणीयाः । कर्मणि लोट् । उत्तमपुरुबहुवचनम् । एते कीदृशाः । प्रकृष्टं शौचादिसंपन्नं कर्तारं यजमानमभिप्रेत्यभिसंबध्नाति कर्त्रभिप्रायं क्रियाफलम् । कर्मण्यण् । तद्येषामस्ति तान्विधीन्यागान्प्रयुञ्जानाः कुर्वाणाः । 'प्रोपाभ्यां युजे:-' इति तङ् । स्वार्थपरानस्मात्प्रत्युपकारनिरपेक्षस्त्वं रक्षिष्यसीति रामस्यातिमहत्त्वं दर्शितम् । कर्तव्यप्रत्युपकारविषयकोत्कण्ठां रामभद्रस्योत्थापयितुमाह - यत्सत्यमित्यादि । नक्तंचरव्यतिकरेण राक्षसव्यसनेन । 'अथ व्यतिकरः पुंसि व्यसनव्यतिषङ्गयोः' इत्यमरः । सीरध्वजेन जनकेन वितन्यमाने क्रियमाणे । दुःखेनाकृष्यते यत्तद्दुराकर्षम् । 'ईषद्दुः सुषु-' इति कर्मणि खल् । ऐन्दुशेखरं माहेश्वरम् । लाङ्गलमुखेन हलमुखेनोलिखिता कृष्टा या विश्वंभरा पृथिवी तस्याः प्रसूतिरपत्यम् । अत एवागर्भसंभवा । ' लाङ्गलं हलम्' इत्य
१. 'सस्नेहमालिङ्ग्य' इति पाठः. २. 'प्रतिपाल्यामहे' इति पाठः. ३. 'स्वगतम् ' इति पुस्तकान्तरे नास्ति. ४. 'चुबुककपोल -' इति पाठ:. ५. 'वत्स यत्सत्य - ; 'सत्य -' इति पाठः ६. 'नक्तंचरचक्र -' इति पाठः. ७. 'येनाद्य' इति पाठः.
For Private and Personal Use Only