________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः]
अनर्घराघवम् ।
कलहंसिका-(विहस्य ।) भोदु । ता ण किं पि तुझेहिं सुदम् ।
कञ्चकी-वत्से, न तावदर्थोऽयमद्यापि राजगोचरीभवति । यदि च स्यात्किमेतावता ।
कलहंसिका—तदा हदासो रावणो देवीं परिणेदि । कञ्चुकी-(विहस्य ।)
हस्ते करिप्यति जगत्रयजित्वरोऽपि
केस्तादृशो दुहितरं जनकेश्वरस्य । प्राणाधिकं विपुलबाहुभृतामपीदं
त्रैयम्बकं किमपि कार्मुकमन्तरायः ॥ ८ ॥ नापि दशकंधरानुरोधेन स्वयं प्रतिज्ञातमन्यथा करिष्यति महाक्षत्रियो विदेहराजः । तन्न किंचिदेतत् ।
कलहंसिका-(विहस्य ।) एवं भोदु । अज, संपदि कहिं ते रामलक्खणा ।
मिति कुतो ज्ञातमित्यत आह-तदात्वे तत्काले प्रोन्मीलन्यो म्रदिमा मृदुत्वं तेन रमणी. यात् । प्रत्यङ्गादित्यस्य विशेषणम् । म्रदिमेति 'पृथ्वादिभ्य इमनिच्-' । 'र ऋतो हलादेसंघोः' इति रेफादेशः । 'टे:' इत्युकारलोपः । 'तत्कालस्तु तदात्वं स्यात्' इत्यमरः । 'दसग्गीवपुरोहिदो आअदोत्ति' इति वाक्ये कचुकिनोऽवज्ञामवगम्य तत्रोत्तराप्राप्ती सत्यामिदानी प्रसक्तानुप्रसक्त्या तिरोहिततद्वाक्यस्योत्तरप्राप्त्यर्थ कलहंसिका कञ्चुकिन प्रत्याह-भोदु इति । 'भवतु । तन्न किमपि युष्माभिः श्रुतम्' [इति च्छाया। अधुना तत्रोत्तरयति-वत्से, न तावदित्यादि। यदि न स्यादित्यस्याकाङ्क्षा पूरयति-तदेति। 'तदा हताशो रावणो देवी परिणयते' [इति च्छाया ।] अत्र हताशो निन्दितप्रत्याशः। परिणयते विवाहयति । हस्तेकरिष्यतीति । हस्तेकरिष्यति विवाहयिष्यति । 'नित्यं हस्तेपाणावुपयमने' इति हस्तेशब्दस्य सप्तम्यन्तप्रतिरूपकस्याव्ययस्य गतित्वाद्धातोः प्राक्प्रयोगः । जित्वरो जयनशील इत्यत्र 'सर्तिशास्त्यर्तिभ्यश्च' इति करप् । प्राणाधिकं बलाधिकम् । 'वरं प्राणाधिको योधो न तु प्राणाधिकं धनुः' इति धनुःशास्त्रम् । त्रैयम्बकं माहेश्वरम् । त्र्यम्बकस्येदम् । 'तस्येदम्' इत्यण् 'न य्वाभ्याम्-' इत्यैच् । कामुकं धनुः । अन्तरायो विघ्नः । एवमिति । “एवं भवतु । आर्य, संप्रति कुत्र तौ रामलक्ष्मणौ' [इति च्छाया ।] अत्रैवं भवतु त्वद्वचनमेवास्तु । उत्तरं कुर्वाणोऽपि तयोः प्र
१. 'तावदयमर्थः'. २. 'यस्तादृशः'; 'कस्तादृशीम्'. ३. (निःश्वस्य ।). .
For Private and Personal Use Only