________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः]
अनर्घराघवम् ।
१०३
किं च ।
रुचिभिरभितष्टोत्कीर्णैरिव त्रसरेणुभि
र्यदुडुभिरपि च्छेदैः स्थूलैरिव भ्रियते नमः । प्रकृतिमलिनो भावद्बिम्बोन्मृजाकृतकर्मण
स्तदयमपि हि त्वष्टुः कुन्दे भविष्यति चन्द्रमाः ॥ ८० ॥ लक्ष्मण:-(सर्वतोऽवलोक्य ।)
भूयस्तराणि यदमूनि तमखिनीषु
जौत्स्लीषु च प्रविरलानि ततः प्रतीमः । संध्यानलेन भृशमम्बरमूषिकाया
मावर्तितैरुडभिरेव भृतोऽयमिन्दुः ॥ ८१ ॥ तर्हि यच्छ्यामलमालोक्यते तत्किमित्यत आह-इदं नभ आकाशं विभाति । हिरवधारणे । अतिनिबिडस्यावयविनो नयनगतिप्रतिबन्धकस्यान्तरा वर्मना कथं नभो दृश्यत इत्यत आह-निर्दयो यो विधुतुदो राहुस्तस्य दन्तपदव्रणविवरेणोपदर्शितम् । आवेदितमित्यर्थः । पदं स्थानम् । रुचिभिरिति । यद्रुचिभिः कान्तिभिरभितः सर्वत्र नभो त्रियते पूर्यते । टङ्केनोत्कीर्णरुत्क्षिप्तस्त्रसरेणुभिरिवेत्युत्प्रेक्षा । नैता रुचयः, किं तु विश्वकर्मणटकेनोत्कीर्णास्त्रसरेणव इत्यर्थः । यद्वा रुचिभिस्त्रसरेणुभिरिति व्यस्तरूपकम् । यच्चोडभिरपि नक्षत्रैरपि नभो म्रियते । स्थूलैरवयवमहत्त्ववद्भिश्छेदैः खण्डेरिवेत्युत्प्रेक्षा। टोत्की. णरित्यत्राप्यनुकर्षणीयम् । नैतानि नक्षत्राणि, किं तु टकैरिव च्छिन्नानि चन्द्रमस एव स्थूलावयवानीत्यर्थः । तत्तस्मादेवायमपि चन्द्रमास्त्वष्टुर्विश्वकर्मणः कुन्दे भविष्यत्येवेत्युक्तिविशेषे भूत एवेत्यर्थः । हिशब्द एवार्थे । कीदृशस्य । भाखतः सूर्यस्य यो बिम्बस्तस्य योन्मृजोन्मार्जनम् । प्रोञ्छनमिति यावत् । तत्र कृतकर्मणः कृतव्यापारस्य । अतिकुशलस्येत्यर्थः । विश्वकर्मणा स्वसुता सूर्याय दत्ता, सा च तत्तेजोसहिष्णुतां पित्रे कथयामास, तेन विश्वकर्मणा तत्तेजःक्षयार्थं सूर्यस्तक्षित इति कथा। प्रकृल्या स्वभावेन मलिनः। अन्यस्यापि मलिनस्यादर्शादेरुन्मार्जनं क्रियत इति ध्वनिः । 'देवशिल्पिन्यपि त्वष्टा' इति धरणिः । 'तारकाप्युडु वा स्त्रियाम्' इत्यमरः । भूयस्तराणीति । तमखिनीषु तमोयुक्तासु रात्रिषु यद्यस्माद्भूयस्तराण्यतिबहून्यमूनि । उडूनि, प्रकरणप्राप्तत्वात् । ज्योत्स्नीषु चन्द्रिकान्विता रात्रिषु च प्रविरलानि स्वल्पानि । सन्तीति शेषः । ततो हेतोरिति प्रतीमो जानीमः । संध्यैवानलो वह्निस्तेन भृशमत्यर्थमम्बरमूषिकायामाकाश एव मूषिका 'मूस'इति प्रसिद्धा यत्र सुवर्णादिकमावर्त्यते तस्यामावर्तितैर्द्रवीकृतैरुडभिरेव नक्षत्रैरेवाय मि
१. 'कृतः' इति पाटः.
For Private and Personal Use Only