SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । (विहस्य च ।) हन्त, यथाधर्ममेतत् । यत्पीयूषमयूखमालिनि तमःस्तोमावलीढायुषां नेत्राणामपमृत्युहारिणि पुरः सूर्योढ एवातिथौ । अम्भोजानि पराञ्चि तन्निजमघं दत्त्वेव तेभ्यस्ततो गौराङ्गीवदनोपमासुकृतमादत्ते पतिर्यज्वनाम् ।। ८२ ।। विश्वामित्र:-(सर्वतोऽवलोक्य । सस्मितम् ।) अहह नामधेयमात्रमाधुर्यादपरमार्थदृश्वानो विप्रलभ्यन्ते । तथा हि । स्मेरा दिशः कुमुदमुद्भिदुरं पिबन्ति __ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः । न्दुभृतः । पूरित इत्यर्थः । तेन चन्द्रोदये नक्षत्राणां खल्पतेति भावः । 'ज्योत्स्नी चन्द्रिकयान्विता' इत्यमरः । 'तैजसावर्तनी मूषा' इत्यपि हन्त खेदे । 'हन्त हर्षे च खेदे च' इत्यमरः । यथाधर्म धर्मस्यानतिक्रमः । यथाधर्ममाचष्टे-यत्पीयूषेति । यद्यस्मात्तमःस्तोमेनान्धकारसमूहेनावलीटमाखादितमायुर्येषां तादृशानां नेत्राणामपनृत्युहारिणि । अपमृत्युरकालमरणम् । अपमृत्युरिवापमृत्युस्तन्नाशके । पीयूष[मयूख मालिनि चन्द्रे । अन्यदप्यमृतं मृत्युहारि भवतीति ध्वनिः। सूर्योढे संध्याकाल एव पुरोऽग्रे पूर्वदिशि वा तिथौ सत्यम्भोजानि पद्मानि पराञ्चि पराङ्मुखानि । संकुचितानीति यावत् । भूतानीति शेषः । तत्तस्माद्धेतोर्यज्वनां याज्ञिकानां पतिर्द्विजराजश्चन्द्रो निजं स्वीयमघं पापं तेभ्यः पद्मेभ्यो दत्त्वा ततः प्रत्यवायाभावात् । ततः पद्मेभ्यो वा गौराद्या या वदनोपमा तदेव सुकृतं पुण्यमादत्ते गृह्णाति । चन्द्रसदृशं मुखमिति प्रतीतेः । तथा च धर्मशास्त्रम्-'अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स तस्य दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ अतिथौ विमुखे प्रोक्तं गते यत्पातकं नृणाम् । तदेवाष्टगुणं प्रोक्तं सूर्योढे विमुखे गते ॥' विप्रलभ्यन्ते विसंवाद्यन्ते । जनैरिति शेषः । रामस्यातिचिरं चन्द्रवर्णनमवलोक्य ततो निवर्तयितुं भूमिकामारचयति-स्मेरा इति । आः निन्दायाम् । अत्रिनाम्रो मुनेर्लोचनदूषिकायां नेत्रमले पीयूषदीधितिरिति कीदृगनुरागः प्रथितः । नेत्रमलेऽमृतदीधितिरिति वक्तुं न युक्तमिति भावः । ननु दिवप्रसादकुमुदप्रकाशचकोरोदरपूर्तिकारित्वाल्लक्षणयापि कथं न वक्तुं युक्तमित्यत आह-दिशः स्मेराः स्वभावादेव, न तु चन्द्र किरणसंवन्धात् । कुमुदमुद्भिदुरमुत्कर्षेण प्रकाशशीलं खप्रकृतेरेव, न तु ततः । उदरंभरयश्चकोरा ज्योत्स्नैव दधिसक्तुकं पिबन्ति । करम्भभ्रान्त्या पिबन्ति, न तु ज्योत्स्नात्वेनेति । उदरंभरिरिति 'फलेग्रहिरात्मभरिश्च' इति चकारस्यानुक्तसमुच्चयार्थत्वान्निपातात्साधुः । तथा च वृत्तिः'अनुक्तसमुच्चयार्थश्चकारः कुक्षिभरिरुदरंभरिरित्यादावपि शिष्टप्रयोगादवगन्तव्यः । १. 'विहस्य यथाधर्ममेतत्' इति पाटः. २. 'नामधेयमाधुर्यात्' इति पाठः, For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy