________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
काव्यमाला। क्षुधमपि तमः कोपादन्तः प्रविश्य विनिम्रतः
__ शशधरकरानच्छिन्नाग्रांश्चरन्ति चकोरकाः ॥ ७७ ॥ अपि चेदानी
तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका
कपाटनीमिन्दुः किरणलहरीमुल्ललयति । समन्तादुन्मीलङ्कहलजलबिन्दुस्तबकिनो
यथा पुञ्जायन्ते प्रतिगुडकमेणाङ्कमणयः ॥ ७८ ॥ (परिकामचूर्ध्वमवलोक्य ।)
तरुणतमालकोमलमलीमसमेतदयं
कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते । तदनृतमेव निर्दयविधुतुददन्तपद
व्रणविवरोपदर्शितमिदं हि विभाति नभः ॥ ७९ ॥ श्चर्यम् । कीदृशीनाम् । त्रिभुवनतमोलुण्टाकीनां त्रिभुवनतमसा लुण्टनकीणाम् । 'लुटि स्तेये' । 'जल्पभिक्षकुलुण्टङः षाकन्' । 'षिद्गौरादिभ्यश्च' इति ङीष् । चकोराः पुनरच्छिन्ना अग्रा येषां तादृशाशशधरकरांश्चरन्ति खादन्ति । 'चर भक्षणे' । कीदृशान् । कोपात्तमः प्रविश्यान्तर्मध्ये क्षुधं बुभुक्षां विनिम्नतो नाशयतः । अपिरेवार्थे । यद्वा क्षुधं तज्जनितं तमोऽपि विनिघ्नतः । यद्वा रोषाच्चकोराणामन्तहृदयं प्रविश्य क्षुधं नाशयतः । रोषादेवान्धकाराणामन्तः प्रविश्य तमो नाशयत इत्यर्थः । तथेति । इन्दुश्चन्द्रः पौरस्त्यायां पूर्वस्यां दिशि किरणलहरी किरणकल्लोलमुल्ललयति प्रसारयति । यथा एणाङ्कमणयश्चन्द्रकान्ताः प्रतिगुडकं गुडिकां गुडिकां प्रति पुञ्जायन्ते । अपुञ्जाः पुजा भवन्ति । 'भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः' इति क्यङ् । यद्वा पुञ्जवदाचरन्ति । आचारे 'कर्तुः क्यङ् इति क्यङ् । कीदृशीम् । कुमुदानां यः केदारस्तत्र या कलिका मुकुलं तदेव कपाटमिव कपाटं पत्रसंकोचस्तन्नाशिकाम् । विकासकत्वात् । कीदृशाः। समन्तात्सर्वत्रोन्मीलन्त उद्गच्छन्तः । प्रादुर्भवन्त इति यावत् । एतादृशा बहलाः प्रचुरा ये जलबिन्दवस्तैः स्तबकिनो गुच्छप्रायाः। संलग्नजलबिन्दूनामपि चन्द्रकान्ताकारत्वादेकस्यापि पुजाकारतेति भावः । उल्ललयतीति 'लल ईप्सायाम्' । चुरादिरदन्तः । 'कपाटमररं तुल्ये' इत्यमरः । तरुणेति । तरुणो यस्तमालस्तापिच्छस्तद्वत्कोमलं मनोहरं मलीमसं च श्याममेतद्वस्तु, अयं चन्द्रमाः कलयति दधाति । 'कलिवली कामधेनू' इति वैयाकरणाः । किल प्रसिद्धौ । तत्कलङ्कमिति ब्रुवते । जना इति शेषः । तदनृतमेव, कलङ्कमिदमिति मिथ्यैव ।
१. 'साक्षादन्तः' इति पाठः. २. 'निगृह्णतः' इति पाठः.
For Private and Personal Use Only