________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः]
अनर्घराघवम् । (ज्योत्स्नातिशयं विभाव्य ।)
किं नु ध्वान्तपयोधिरेष कतकक्षोदैरिवेन्दोः करै___रत्यच्छोऽयमधश्च पैङ्कमखिलं छायापदेशादभूत् । किं वा तत्करकर्तरीभिरभितो निस्तक्षणादुज्ज्वलं
व्योमैवेदमितस्ततश्च पतिताश्छायाछलेन त्वचः ॥ ७५ ॥ (पैरिक्रम्य पार्श्वतोऽवलोक्य च ।)
दलविततिभृतां तले तरूणामिह तिलतण्डुलितं मृगाङ्करोचिः।
मदचपलचकोरचञ्चकोटीकवलनतुच्छमिवान्तरान्तराभूत् ॥ ७६ ॥ (विभाव्य च।)
त्रिभुवनतमोलुण्टाकीनामहो मिहिरत्विषा
मभिविघिरसौ कोकश्रेणीमनस्यैवशिष्यते । हन्कृञ्ग्रहः' इति णमुल् । 'गव्यूतिः स्त्री क्रोशयुगम्' इत्यमरः । किं न्विति । अयं ध्वान्तपयोधिरन्धकारसमुद्रः किं नु । ननु यद्ययमन्धकारसमुद्रस्तत्कथमतिशुभ्रत्वमादधाति' अन्धकारस्य श्यामस्वभावत्वादित्यत आह-इन्दोः करैरत्यच्छोऽतिधवलः । तथा चौपाधिकं धावल्यमस्य प्रतिपादितम् । कतकक्षोदैरिव । औषधविशेषधूलिभिरिवेत्यर्थः । कतकं 'कमित्र' इति प्रसिद्धवृक्षस्य फलं मगधदेशे जातं तस्य क्षोदो धूलिः । तद्दानमात्रात्पङ्कादिकमधः पतति जलं च निर्मलं भवति। पयोधिजलं श्यामवर्णमिति कविसंप्रदायः । अत्र चान्धकारस्य कर्दमत्वेन रूपणाचन्द्रकिरणानां कतकेन रूपणम् । ननु पानीये क. तकानुप्रवेशात्पङ्कमधः पतति, अत्र तु किमित्यत आह-छायापदेशाच्छायाव्याजादखिलं पङ्कमधोऽभूत् । तथा चास्य च्छायैव पङ्कमित्यर्थः । अथवेदं व्योमैवाकाशमेव तत्करकर्तरीभिश्चन्द्रकिरणकर्तरीभिर्निस्तक्षणात्कर्तनादभितः सर्वत्रोज्ज्वलम् । धवलमित्यर्थः । इतस्ततः सर्वत्र च्छायाछलेन त्वचः पतिता इति । अन्यस्यापि कर्तितस्य वृक्षादेस्त्वचः पतन्तीति ध्वनिः कर्तरी 'कतरणी' इति प्रसिद्धा । 'क्षोदः स्यात्पुंसि रजसि' इति मेदिनीकरः । दलविततीति । दलविततिभृतां पत्रविस्तारधारकाणां तरूणां वृक्षाणां तलेऽधो मृगाङ्करोचिश्चन्द्रद्युतिस्तिलतण्डुलितम् । तिलतण्डुलाभ्यां मिश्रीकृतमिव श्यामशुभ्रमभूदित्यर्थः । सान्तरपत्रच्छायासंबन्धात् । उत्प्रेक्षते--अन्तरान्तरा मध्ये मध्ये मदेन चञ्चला ये चकोरास्तेषां चश्वग्रेण कृतं यत्कवलनं तेन तुच्छमिव शून्यमिव । त्रिभुवनेति । मिहिरत्विषां सूर्यकिरणानामभिविधिरभिव्याप्तिः कोकश्रेणीमनस्यवशिष्यते । चक्रवाकाणां मनसि परं संतापो भवतीत्यर्थः । अहो आश्चर्ये । रात्रावपि संताप इत्या
१. "विभाव्य च' इति पाठः. २. 'पङ्कपटलम्' इति पाठः. ३. 'परिक्रम्यावलोक्य च'; 'परिक्रम्य सर्वतोऽवलोक्य' इति पाठः. ४. 'अवतिष्ठते' इति पाठः.
For Private and Personal Use Only