________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
काव्यमाला।
एताभिलिहतीभिरन्धतमसान्युद्रमतीभिर्दिशः
क्षोणीमास्तृणतीभिरन्तरतमं व्योमेदमोजायते ।। ७३ ॥ अपि च ।
नैवायं भगवानुदञ्चति शशी गव्यूतिमात्रीमपि
द्यामद्यापि तमस्तु कैरवकुलश्रीचाटुकाराः कराः । मनन्ति स्थलसीम्नि शैलगहनोत्सङ्गेषु संरुन्धते
जीवग्राहमिव क्वचित्कचिदपि च्छायासु गृह्णन्ति च ।। ७४ ।।
तत्तादृशम् । 'काश्मीरं कुङ्कुमे च स्यात्' इति मेदिनीकरः । 'नाडी तु धमनिः शिरा' इत्यमरः । 'पूः स्त्री पुरीनगर्यो वा पत्तनं पुटभेदनम्' इति च । एताश्च पौलोमीत्यादि । एताः शीतांशोर्युतयः पुरंदरपुरीसीम्नामुपस्कुर्वते गुणान्तराधानं विदधति । 'गन्धनावक्षेपण-' इति प्रतियत्ने तङ् । 'उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च' इति सुट् । यद्वा सीमानमलंकुर्वत इत्यर्थः । 'संपर्युपेभ्यः करोती भूषणे' इति सुट् । 'कृजः प्रतियत्ने' इति कर्मणि षष्टी। पुरीव पुरीत्युपचारात् । कीदृश्यः । इन्द्राणीस्तनकलशकुङ्कुमर जसां स्वाजन्ये समानकुले जन्म तेनोद्धताः सगर्वाः।कुङ्कुमस्य वर्णसाम्येन स्वाजन्यम् ,पौलोमीसंबन्धेनोद्धतत्वं द्युतीनाम् । इदमन्तरतममतिमध्यं व्योमाकाशमेताभिद्युतिभिः करणभूताभिरोजायते ओजस्विवदाचरति । क्यङस्तद्वदर्थे विधानात् 'कर्तुः क्यङ् सलोपश्च' इत्युपमाने क्यङ् सलोपश्च । 'अकृत्सार्वधातुकयोर्दीर्घः' । 'ओजो बलमवष्टम्भः स्यादोजस्त्वित्प्रकाशयोः' इति धरणिः । अन्धतमसानि गाढान्धकारांल्लिहतीभिः खादन्तीभिः । 'लिह आखादने' । शतृ । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः । 'अवसमन्धेभ्यस्तमसः' इत्यच् समासान्तः । दिशः उद्धतीभिः क्रमेण पूर्वादिदिशामुद्रथनं कुर्वतीभिः । अन्धकारेण प्राच्यादिभेदाज्ञानाद्रथिता इव दिश आसन् , इ. दानी चन्द्रातिभिरुद्रथिताः प्राच्यादिभेदं प्रापिता इत्यर्थः । क्षोणीं पृथिवीमास्तृणतीभिराच्छादयन्तीभिः । 'स्तृञ् आच्छादने' । तत्किंकराणामेतदेव प्रयोजनमित्यत आहनवायमिति । अयं भगवाञ्शशी अद्यापीदानीमपि गव्यूतिमात्रीमपि क्रोशद्वयपरिमाणामपि द्यामाकाशं नोदञ्चति नोवं गच्छति । करास्तु तमोऽन्धकार स्थलसीम्नि मनन्ति नाशयन्ति । शैलगहनोत्सङ्गेषु पर्वतवनकोडेषु संरुन्धतेऽवरुद्धं कुर्वन्ति । जीवग्राहं जीवं गृहीत्वा छायासु क्वचिदपि गृह्णन्ति । तम इति सर्वक्रियान्वयि। चाटुरालोको वर्णनं वा । 'नृपादेवर्णने चाटुरालोके चाटुरिष्यते' इति धरणिः । गव्यूतिमात्रीमित्यत्र 'प्रमाणे द्वय. सच्-' इत्यादिना मात्रच् । 'टिडाणञ्-' इति डीप् । जीवग्राहमित्यत्र 'समूलाकृतजीवेषु
For Private and Personal Use Only