________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः]
अनर्घराघवम् । अप्यक्ष्णोर्मुदमुद्विरन्ति कुमुदैरामोदयन्ते दिशः
संप्रत्यूर्ध्वमसौ तु लाञ्छनमैभिव्यतुं प्रकाशिष्यते ॥ ७१ ॥ (सहर्षम् ।)
काश्मीरेण दिहानमम्बरतलं वामझुवामानन
द्वैराज्यं विदधानमिन्दुदृषदां भिन्दानमम्भःशिराः । प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदर्भाङ्कर
क्षीबोत्सङ्गकुरङ्गमैन्दवमिदं बिम्ब समुज्जृम्भते ॥ ७२ ।। एताश्च
पौलोमीकुचकुम्भकुङ्कुमरजःस्वाजन्यजन्मोद्धताः
शीतांशोचूतयः पुरंदरपुरीसीम्नामुपस्कुर्वते ।
ज्ञायां कुमुदानीति स्यात् । यद्वा दिश आमोदयन्ते गन्धयुक्ता भवन्तीत्यर्थः । एतावतापि चन्द्रोदये तस्यानिटमाशङ्कते-संप्रतीदानीमसौ चन्द्रो. लाञ्छनं कलङ्कमभिव्यतमभिव्यक्तीकर्तुम् । स्पष्टयितुमिति यावत् । ऊर्ध्वं यथा भवति तथा प्रकाशिष्यते । क्वचित् 'अभिव्यक्तम्' इति पाठः । तत्रासौ चन्द्र ऊर्ध्वमभिव्याप्य व्यक्तं स्फुटं लाञ्छनं कलङ्क प्रकाशिष्यतेऽभिव्यक्तीकरिष्यत इत्यर्थः । एतच्चासंबद्धम् । प्रकाशतेरकर्मकत्वालाञ्छनस्य कर्मत्वानुपपत्तेरिति । अत्र कश्चित्-प्रकाशिष्यत इलन्तर्भावितण्यर्थोऽयमर्थः सकर्मक इति। अन्ये तु-~-व्यक्तं लाञ्छनमभिलक्षीकृत्य ऊर्ध्वं यथा स्यादेवमसौ चन्द्रः प्रकाशिष्यते लाञ्छनसंबन्धिनं प्रकाशं व्यक्तं धास्यतीति । तथा च प्रकाशो लाञ्छनविषयः स चन्द्रविषयो भविष्यतीत्यर्थः-इत्याहुरिति । वस्तुतस्तु प्रथमपाठः साधीयानिति । 'नासीरोऽग्रपाने स्यादनेऽपि' इति विश्वः । 'मुत्प्रीतिः प्रमदो हर्षः' इत्यमरः । काश्मीरणेति । इदमैन्दवमिन्दुसंवन्धि बिम्बं मण्डलं समुज्जृम्भते प्रकाशते । काश्मीरेणेव । काश्मीरेण कुङ्कुमेनाम्बरतलमाकाशखरूपं दिहानं लिप्तं कुर्वाणम् । 'दिह उपचये' । लट् । शानच् । प्रथमोदितकिरणानामतिलोहितत्वात्काश्मीरसादृश्यम् । वामभ्रुवामङ्गनानामाननस्य मुखस्य द्वैराज्यं प्रातिपक्ष्यम् । सादृश्यमिति यावत् । विद्धानम् । इन्दुदृषदां चन्द्रकान्तमणीनामम्भःशिराः पानीयाधारनाडीभिन्दानं द्विधा कुर्वत् । प्रत्युद्गच्छन्त्यो याः पुरंदरनगरनार्यस्ताभिर्दत्तो योऽर्घस्तत्रस्था ये दर्भाङ्कुरास्तैः क्षीबो मत्तः । अतिभक्षणान्मत्त इव । 'अनुपसर्गात्फुल्लक्षीब-' इति निपातितः । उत्सङ्गे कोडे कुरङ्गो हरिणो यत्र
१. 'उद्वहन्ति' इति पाठः. २. 'अभिव्यक्तुम्' इति पाठः. ३. 'सहर्ष च' इति पाठः. ४. 'दूर्वाङ्कुर-' इति पाठः.
For Private and Personal Use Only