________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अपि च ।
उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिका___ संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः । अप्युर्धवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मज्जता
विश्वेनेव तमोमयो निधिरपामहाय फेनायते ॥ ७० ।। (सनिर्वेदम् ।)
इन्दुर्यादयाद्रिमूर्ध्नि न भवत्यद्यापि तन्मा स्म भू
न्नासीरेऽपि तमःसमुच्चयममूरुन्मूलयन्ति त्विषः ।
रुचो रमणीयतामाह-उन्मीलन्तीत्यादि । पीयूषभानोश्चन्द्रस्य कतिपयेऽसमस्ताः कराः किरणा उन्मीलन्ति प्रसरन्ति । मृणालवत्कोमला रुक्कान्तिर्येषां ते । राजीवानां पद्मानां संवर्तिका नवदलानि तेषां संवर्तः प्रलयः। पत्रसंकोच इति यावत् । व्रतमेव वृत्तिापारो येषां ते । उत्प्रेक्षते-तमोमयोऽप्यन्धकारमयोऽप्यन्धकारसमूह एवापां निधिः समुद्रोऽहाय झटिति फेनायते फेनमुद्वमति । समूहे मयट् । यद्वा तमोमयोऽन्धकारप्रकृतिः समुद्रः । समुद्रतुल्योऽन्धकार इत्यर्थः । कीदृशः । उौः किरणैर्धवलीभवत्सु गिरिषु पर्वतेषून्मजतोन्मजनं करिष्यता विश्वेन जगता क्षुब्धो मथित इव । अन्योऽपि समुद्रो गिरिणा मन्दरेण मथितः सन्फेनं त्यक्तवानिति ध्वनिः । क्षुब्ध इति 'क्षुब्धखान्तध्वान्त-' इत्यादिना मन्थे निपातित इति यद्यपीत्यादि पूर्वपक्षः, सिद्धान्तश्चात्र 'संक्षुब्धदुग्धमयसागर-' (१॥३५) इत्यादौ प्रथमाङ्क एव विवेचित इति तत्रैवालोचनीयमेतत् । कतिपय इति 'प्रथमचरम-' इति जसि विकल्पेन सर्वनामसंज्ञा । फेनायत इति 'फेनाच' इति क्यङ्। 'संवर्तः प्रलयः कल्पः' इत्यमरः। 'संवर्तिका नवदलम्' इति च । 'द्राग्झटित्यन्जसाहाय' इत्यपि । 'विश्वं जगति स्यान्नपुंसकम्' इति मेदिनीकरः । निर्वेदो वैराग्यम् । इन्दुरित्यादि । इन्दुश्चन्द्र उदयाद्रिमूर्ध्यद्याप्येतावतापि कालेन यदि न भवति तदा मा भून्मा भवतु । 'स्मोत्तरे लङ् च' इति लुङ् । 'न माङयोगे' इत्यङ्निषेधः । ननु तिमिरपटलनाशः कथं स्याद्यदि चन्द्रोदयो न स्यादित्यत आह-अमूस्विषोऽपि कर्यः । अपिर्भिन्नक्रमः । नासीरेऽग्रे तमःसमुच्चयमन्धकारसमूहमुन्मूलयन्ति । तथा च चन्द्रकर्तव्यान्धकारनाशरूपकर्मणस्त्विषैव करणात्कृतमन्यथासिद्धेन चन्द्रोदयेनेति भावः। ननु भवत्वेवं तावत् , चक्षुःप्रीत्याद्यर्थमेवोदेत्वित्यत आह-अक्ष्णोरपि चक्षुषोरपि मुदं हर्षमुद्गिरन्ति । कुमुदैः करणभूतैश्च दिश आमोदयन्ते हृष्यन्ति । खार्थे णिच् । 'णिचश्च' इति तङ् । अन्यथा 'गतिबुद्धि-' आदिसूत्रेणाकर्मकान्मुदेः कर्मसं
१. 'अप्युप्रैः' इति पाठः.
For Private and Personal Use Only