________________
Shri Mahavir Jain Aradhana Kendra
२ अङ्कः]
( पुरतोऽवलोक्य ।)
www.kobatirth.org
अनर्धराघवम् ।
Acharya Shri Kailassagarsuri Gyanmandir
स्फुरति पुरतो माद्यन्माद्यच्च कोरविलोचनप्रकरकिरण श्रेणीदत्तस्वहस्तघनं महः । हृदय लघु मा भूः प्रेयोदर्शनप्रतिभूरयं कुवलयदृशामिन्दुर्नैत्रे सुधाभिरनक्ति नः ॥ ६९ ॥
For Private and Personal Use Only
९७.
अत्यर्थ प्रक्षालिताः शुष्यन्त्यस्त्वचो वल्कला येषु ते । क्लिश्यदित्यत्र 'क्लिशू विबाधने' इत्यस्य क्र्यादित्वात्ना स्यात् । 'क्लिश उपतापे' इत्यस्य चात्मनेपदित्वाच्छतु न स्यादित्यसाधुतेति न वाच्यम् । आत्मनेपदविधेरनित्यत्वात् । सहतीत्यादिप्रयोगस्य दृष्टत्वात् । निद्राणी निद्रायुक्तः । ' आतो धातो:' इति निष्ठातकारस्य नकारः । संचीवरयिष्यमाणेति 'पुच्छभाण्डचीवराण्णिङ्' इति परिधानार्थे णिङ् । 'वल्ली तु व्रततिर्लता' इत्यमरः । स्फुरतीति । महस्तेजोऽर्थाच्चन्द्रस्य स्फुरति । कीदृशम् । माद्यन्तोऽत्यर्थं हृष्यन्तः । ‘मदी हर्षे' दिवादिः । ‘शमामष्टानां दीर्घः श्यनि' इति दीर्घः । ये चकोराणां विलोचनप्रकराचक्षुःसमूहास्तेषु किरणश्रेणीभिर्दत्तं स्वहस्तस्य 'स्वहथ' इति प्रसिद्धस्य घनं समूहो येन तत्तादृशम् । यद्वा स्वहस्तोऽवलम्बस्तेन घनं निरन्तरम् । हे कुवलयदृशां हृदय, लघु मा भूः कातरं मा भूयाः । अयमिन्दुश्चन्द्रः प्रेयसोऽत्यन्तप्रियस्य दर्शने प्रतिभूर्लनको नोऽस्माकं नेत्रे चक्षुषी सुधाभिरमृतैरनक्ति लिम्पति । नेत्रे इति प्रत्येकं संबन्धः। अन्यथा नेत्राणीति स्यात् । यद्वा न इति 'अस्मदो द्वयोश्च' इत्येकत्र बहुवचनम् । चन्द्रोदयस्य विरहिणां कंदर्पज्वरदाहृदायित्वाच्चन्द्रमालोक्य स्वयमेव कुसुमबाणवशग: प्रियः समागमि`ष्यतीति हृदयाश्वासनमिति भावः । ननु चाप्रस्तुतमिदम् । कुवलयदृशां तन्त्रासांनिध्यात् । अत्र केचित् — उद्विग्नवचनमिदम् । यथा – 'कैकेयि प्रियसाहसे सुतवधान्मातः कृतार्था भव' इति । अपरे तु —- आकाशवचनमेतत् । तथा- - " कैकेयि कामा फलितास्तवेति' । अन्ये तु भगवतो हि चेतस्यन्धकारे सति महद्दुःखमुत्पन्नमत आह--- हे हृदय मदीय, मा लघु उपतप्तं भूः । अयं कुवलयदृशां प्रेयोदर्शनप्रतिभूरिन्दुः सुधाभिर्नेत्रे अनक्ति । अतोऽन्धकारापनोदः संनिहित इति भावः । इतरे तु भगवतः प्राच्यां दिशि तेजःपटलं दृष्ट्वा किमयमन्य एव मायावी राक्षसः समायात इति बुद्धिरुत्पन्ना ततो निरूप्याह - हे मदीय हृदय, मा लघु भूर्मा सत्वरं भव । नासौ राक्षसः कश्चित् किं तु कुवलयदृशां प्रेयोदर्शनप्रतिभूरयमिन्दुः- इति वर्णयन्ति । न चातीतानागतज्ञतया रामस्य नेयं शङ्केति वाच्यम् । सर्वदा तस्य तथात्वानभ्युपगमात् । अन्यथा मायादिदर्शने तस्येतिकर्तव्यतायां मोहस्याप्राप्तिप्रसङ्गात् । मा भूरिति भवते: 'माङि लुङ्' । सिच् । 'गातिस्था-' इत्यादिना सिचो लुक् । 'न माङ्योगे' इत्यनिषेधः । 'प्रतिभूर्लनकः पुमान्' इति विश्वः । सकौतुकं
-
1
१. 'पुरोऽवलोक्य' इति पाठः.