________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ अङ्कः
अनराघवम् । ज्योतिर्मयेन वपुषा जगदन्तसाक्षी लजिष्यते कुलगुरुभगवान्वसिष्ठः ॥ ६० ॥ .
(नेपथ्ये ।) अलमिष्ट्वा मखान्मूर्खाः खड्गधारेयमस्ति नः ।
अदवीयानयं पन्थाः खर्लोकमुपतिष्ठते ॥ ६१ ॥ रामः-(श्रुत्वा सरोषं ससंभ्रमं चोत्थाय सविनयमञ्जलिं बवा ।) भगवञ्जगत्रयगुरो गाधिनन्दन,
दशरथगृहे संभूतं मामवाप्य धनुर्धरं
दिनकरकुलास्कन्दी कोऽयं कलङ्कनवाङ्कुरः । इति नै वनितामेती हन्तुं मनो विचिकित्सते
यदधिकरणं धर्मस्थीयं तवैव वचांसि नः ॥ ६२ ॥ स्मिन्नकीर्तिपटहे स्त्रीवधरूपे ताङ्यमाने वाद्यमाने सति भगवान्वसिष्ठः किं तु लज्जिध्यते । मामकीनस्त्रीवधरूपकर्मश्रवणात् । ननु कथमिमं वृत्तान्तं वसिष्ठो ज्ञास्यतीत्यत आह-ज्योतिर्मयेन ब्रह्ममयेन नक्षत्रमयेन वा वपुषा शरीरेण जगतोऽन्तेऽपि प्रलयेऽपि यः साक्षी साक्षाद्रष्टा । यद्वा जगतोऽन्तस्य चतुःसमुद्रपर्यन्तस्य साक्षी । द्रष्टेत्यर्थः । सा. क्षीति ‘साक्षागृष्टरि संज्ञायाम्' इतीनिः । यद्यप्युत्कर्षबुद्ध्यैव लोकेन रामचन्द्रकृतताडकावधप्रकाशनं तथापि रामस्य स्त्रीवधेनापकर्षबुद्धिरिलकीर्तिपटहत्वेन कीर्तनम् । वसिष्ठस्य ताडकावधज्ञाने प्रजाकृतप्रकाशनं न हेतुः । तस्य ज्योतिर्मयत्वेनैव सकलगोचरज्ञानाश्रयत्वात् । किं तु प्रजाकृततद्वधप्रकाशनं वसिष्ठस्य लज्जायां हेतुः । तथाहि ममापि यजमानरघुकुलस्य स्त्रीवधेनाप्युत्कर्षः प्रथत इति तस्य लज्जेति । नेपथ्ये घातुकानां सुबाहुप्रभृतीनां प्रथमं यागनिन्दापरं स्वमार्गप्रवर्तकं वचनम् । अलमित्यादि । हे मूर्खाः । अ. त्रापि पूर्ववत्क्त्वा । कुतो वृथेत्यत आह-अस्माकमियं खड्गधारास्ति । यज्ञाधिकेति भावः । कुतोऽस्या यज्ञाधिक्यमत आह-अयं पन्था अदवीयान्संनिहितः खर्गलोकमुपतिष्ठत उपस्थितो भवति । 'उपाद्देवपूजा-' इति संगतिकरणे तङ् । नानाङ्गै/हिप्रोक्षणावघातफलीकरणपुरोडाशहोमप्रभृतिभिर्यागः खलु निष्पाद्यते, तेनापूर्व जन्यते, तेन च ख! जन्यत इति वर्लोकगमने वक्रः पन्थाः । मम तु खड्गधारापातेन शीघ्रं स प्राप्यत इति यागेनालमिति भावः । तदुक्तम्-'द्वाविमौ पुरुषौ राजन्सूर्यमण्डलमेदिनौ । परिब्राड्योगयुक्तश्च युद्धे चाभिमुखो हतः ॥' इति । ससंभ्रमं सोद्वेगमित्यर्थः । संभ्रमस्त्वरा वा। तदेव स्फोरयति-दशरथेत्यादि। दशरथगृहे संभूतं मां धनुर्धरमवाप्य दिनकरकु
१. 'ससंभ्रममुत्थाय'; 'सरोषसंभ्रममुत्थाय' इति पाठः. २. 'भगवन्गुरो' इति पाठः. ३. 'हि' इति पाठः. ४. “एनाम्' इति पाठः. ५. "धर्मस्थानम्' इति पाठः.
For Private and Personal Use Only