________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
(प्रणिपत्य नेपथ्याभिमुखम् ।) भोस्तपोधनाः, मा भैष्ट ।
रजनिचरचमूरमूरपास्यन्नयमहमागत एव रौमचन्द्रः ।
कुशिकसुतकुशाग्रतोयबिन्दोरिदमनुकल्पमवेत कार्मुकं मे ॥ ६३ ।। (इति धनुरारोपयनिष्क्रान्तः ।)
लक्ष्मणः-(साशङ्कमात्मगतम् ।) दिष्टया क्षात्रेण धर्मेण कौमारमप्यशन्यमार्यस्यासीत । (नेपथ्याभिमुखमवलोक्य हर्षे नाटयन्प्रकाशम् ।) भगवन्कोशिक, पैश्य पुरस्तादार्ये धृतधनुषि वायव्यास्त्रव्यतिकरनिरालम्बनस्ताडकेयः
प्राप्तो जीवन्मरणमसुभिर्विप्रमुक्तः सुबाहुः । लमास्कन्दयितुं शीलं यस्य तादृशः कोऽयं कलङ्कस्य नवोऽङ्करः । इत्यनेन प्रकारेणैतां वनितां स्त्रियं ताडकां हन्तुं मम मनो न विचिकित्सते । 'अन्यत्रापि दृश्यते' इति वाचनात् । न संदेग्धीत्यर्थः । 'गुप्तिकिझ्यः सन्' । 'विचिकित्सा तु संशयः' इत्यमरः । नन्वेवंविधेऽपि स्त्रीवधरूपकर्मणि कथं न संदेग्धील्यत आह-यदिति । यद्यस्माद्धेतो!ऽस्माकं तवैव वचांसि धर्मस्थीयमधिकरणं धर्मक्रियाप्रवर्तकमधिकरणं निर्णयस्थानम् । तथा च धर्मस्थीयाधिकरणेन विश्वामित्रवचसो रूपणम् । तेन यथान्येषां राज्ञां धर्मस्थीयादधिकरणात्प्रवृत्तिर्निवृत्तिा तथास्माकमपि भवद्वंचनादिति भावः । रूपके भिन्नलिङ्गता भिन्नवचनता च न दोषः । सौभाग्यादानात् । 'यदधिकरणं धर्मस्थेयम्' इति पाटे धर्मस्थानमित्यर्थः । 'यदधिकरणं धर्मश्चायम्' इत्यादिपाठो मनोहरो विस्तरभयान लिखितः । मा भैष्ट मा भीतिं कुरुध्वम् । 'जिभी भये'। 'सिचि वृद्धिः परस्मैपदेषु' इति वृद्धिः । रजनिचरेति । अयमहमित्यत्यन्ताहंकारे। रजनिचरसेना अपास्यन्मारयिष्यन् । 'असु क्षेपणे' । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यति लट् । दिवादित्वात्दयन् । कौशिकस्य कुशाग्रतोयबिन्दोः शान्तिजलस्यानुकल्पं पश्चात्कल्पं गौणमिदं मे कार्मुकं धनुरवेत जानीत । 'इण् गतौ' । सर्वे गत्यर्थी ज्ञानार्थी इति शाब्दिकाः । यथा कौशिकस्य मन्त्रसंस्कृतकुशाग्रतोयबिन्दुः शत्रून्पातयति तथा ममापीदं धनुरिति भावः । 'मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः' इत्यमरः । आरोपयनधिज्यं कुर्वन् । 'दिष्ट्येत्यानन्दने मतम्' इति भावः । कौमारं बाल्यम् । अशून्यं कृतिक्षमम् । आसीदित्यत्र 'आशंसायां भूतवञ्च' इति लङ् । धृतधनुषीत्यत्र 'धनुषश्च' इत्यनङ् न भवति । समासान्तविधेरनित्यत्वात् । सतिसप्तमीयं । वायव्येति । अयं ताडकेयस्ताडकापुनः सुबाहु -
१. 'नेपथ्याभिमुखमवलोक्य' इति पाठः. २. 'मा भैष्ट तपोधनाः, मा भैष्ट'; 'मा भैष्ट भोस्तपोधनाः, मा भैष्ट' इति पाठः. ३. 'रामभद्रः' इति पाठः. ४. 'सोत्साहशङ्कमात्मगतम्' इति पाठः. ५. 'प्रकाशम्' इति पुस्तकान्तरे नास्ति; 'सप्रकाशम्' इति पाटः. ६. 'पश्य पश्य' इति पाठः. ७. 'धनुषि धृते' इति पाठः. ८. 'विप्रयुक्तः' इति पाठः.
For Private and Personal Use Only