________________
Shri Mahavir Jain Aradhana Kendra
अंबड
॥ ४५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च रोहिण्या: पार्श्वे गता, रोहिण्यपि तां सुरूपां सालंकारां सुलक्षणां च दृष्ट्वात्यंतं हृष्टा सती तस्याः सन्मानादिपूर्वकं बहुविधां प्रतिपत्तिं चकार ततस्तां सुवर्णमयसिंहासने समारोप्य सा कुशलवार्त्तामपृच्छत्. अथ तया जोजनार्थं निमंत्रिता सती सा स्वकीयं निरीहत्वं प्रकटीचकार, कथयामास च दे राजसुते अस्मिन्नसारे संसारे जीवानां सुखकारणं धर्म एव ज्ञातव्यः यतः — रम्येषु वस्तुषु मनोहरतां गतेषु । रे चित्त खेदमुपयासि कथं वृथैव ॥ पुष्यं कुरुष्व यदि तेषु तवास्ति वांबा । पुण्यैर्विना न हि जवंति समीहितार्थाः ॥ १ ॥ एवं धर्मोपदेशं श्रुत्वा राजसुतया प्रोक्तं हे तपस्विनि जवत्या यौवनसमये एव वैराग्यवृत्तं कथं गृहीतं ? तस्य कारणं कथय ? तदा तपस्विन्योक्तं हे राजसुते एषा वार्त्ता त्वया न पृष्टव्या. परं राजसुताया अतीवाग्रहं दृष्ट्वा तयोक्तं शृणु ? सुरीपुरनगरे सूरसेनो राजा, तस्य मालिकीनाम्नी पुत्री, सा चादं त्वया ज्ञातव्या. मम माता च मे बाल्ये वयस्येव मृता, एवं मातरं विनादं दुःखिनी जाता. यतः - बालस्स मायमरणं । नामरणं च जूनणारंजे ॥ बुद्धस्स पुत्तमरणं । निविदुरका गुरुश्राई ॥ १ ॥ ततः पित्रा मध्ययनार्थ लेखशालायां मुक्ता, तत्राध्ययनं कु
For Private and Personal Use Only
| चीरत्रं
॥ ४५ ॥