________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१२
Acharya Shri Kailassagarsuri Gyanmandir
अमरको
कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम् अत्याहितं महाभीतिः कर्म जीवानपेक्षि च युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु त्रिष्वतो जगदिङ्गेऽपि रक्तं नील्यादिरागि च अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ युक्तेऽतिसंस्कृते मर्षिण्यभिनीतोऽथ संस्कृतम् कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि ख्याते दृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे
[ ५. नानार्थवर्गः
२४८७
२४८८
२४८९
२४९०
२४९१
२४९२
२४९३
२४९४
For Private and Personal Use Only
२४९५
२४९६
२४९७
२४९८
त्रिषु । घृतामृते द्वे अप्सु वर्तेते । चकारात् घृतमाज्ये जले क्लीबम् । अमृतं तु घृते पीयूषे यज्ञशेषे च । रूप्यं रजतम्, हेम सुवर्णम्, लक्ष्म चिह्नम्, एतेषु कलधौतम् । शास्त्रे अवधृते च श्रुतम् । युगे प्रथमयुगे, पर्याप्ते अलमर्थे कृतम् । जीवानपेक्षि साहसरूपं कर्म महाभीतिर्महद्भयं च अत्याहितं स्यात् । युक्ते न्याय्ये । क्ष्मादौ क्षित्यादिपश्चके । ऋते सत्ये । प्राणिनि जन्तौ । अतीते वृत्ते । समे सदृशे भूतम् । पद्ये श्लोके अतीते भूते दृढे गाढे निस्तले वर्तुलेsतीतादौ त्रिलियां वृत्तम् । राज्यं चकारात् बृहच्च महत् । जन्ये जनापवादे गर्हिते निन्दितेऽवगीतम् । रूप्ये 'अपि शब्दाच्छुश्रेऽपि श्वेतम् । हेनि रूप्ये सिते च रजतम् । अतो रजतात् परे तान्ताः शब्दास्त्रिषु । इङ्गे जंगमे भुवने च जगत् । नील्यादिरागयुक्तं रक्तम् । सितादित्रयेऽवदातः । अर्जुनः शुक्लः बद्धव सितः । युके न्याय्ये अतिप्रशस्ते भूषिते मर्षिणि क्षन्तरि च अभि नीतः । कृत्रिमे घटादौ लक्षणोपेते शास्त्रोपलक्षणयुक्ते च संस्कृतम् । अनवध निःसीमे, 'अपिशब्दाच्छेषादौ अनन्तः । ख्याते प्रसिद्धे हृष्टे च प्रतीतः । कुलजे कुलीने बुधे पण्डितेऽभिजातः । पूतं पवित्रम् । विजनो विगतजनः । एतौ
1