________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
पतयः २४८७-२५१०] तृतीयं काण्डम् विविक्तौ पतविजनौ मच्छितौ मुढसोच्छयौ २४९९ द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचको २५०० सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् २५०१ पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते २५०२ निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् २५०३ जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी
२५०४ वृद्धिमत्प्रोद्यतोत्पन्ना आहतौ सादरार्चितौ
२५०५ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु
२५०६ निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ
२५०७ समर्थस्त्रिषु शक्तिस्थे संबद्धार्थे हितेऽपि च २५०८ दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि २५०९ आस्थानीयत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः २५१० 'शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थिती मृतौ ** विविक्तौ । मूढो मोहं गतः सोच्छ्यो वृद्धियुक्तः द्वौ मूञ्छितौ । अम्लं चुक्रम् । परुषो निष्ठुरः । द्वौ शुक्ताख्यौ । धवलः शुभ्रः । मेचकः कृष्णवर्णः । उभयोः शितिः। सत्ये साधी विद्यमाने प्रशस्ते अभ्यर्हिते च सत । अरात्यभियुक्त शत्रुणाक्रान्ते अग्रतः कृते पुरःस्थिते पूजिते च पुरस्कृतः। आश्रयो निवासः । अवातो वातवर्जितः । उभौ निघाती। यच्छस्त्राभेद्यं वर्म कवचं तदपि निवाताख्यम् । जात त्पन्नः । उन्नद्धो दृप्तः । प्रवृद्धश्चैते उच्छ्रिताः । वृद्धिमत्, प्रोद्यतः, उत्पन्नं, एते उत्थिताः। सादरार्चितो आहतौ । अभिधेयो वाच्यः । राः धनम् । वस्तु तत्त्वम् । निवृत्तिनिवर्तनम् । अत्र विषयेऽप्यर्थः । निपानमुपकूपजलाशयः । आगमो बौद्धशास्त्रादन्यच्छास्त्रम् । ऋषिमुष्टे जले ऋषिभिः सेवितोदके गुरावुपाध्याये च तीर्थम् । शक्तिस्थे शक्तिमति । संबद्धार्थे हितेऽनुकूले च समर्थः । क्षीणो रागो रसोऽस्य क्षीणरागः । वृद्धोऽतिवृद्धः । उभौ दशमीस्थौ । पदवी मार्गः। 'अपि'शब्दात् पकिरपि वीथी। आस्थानी सभा। यनः प्रयत्नः । उभौ आस्था । सानु पर्वताप्रम् । मानं परि
For Private and Personal Use Only