________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्क्यः २४६२-२४८६ ]
तृतीयं काण्डम्
सङ्गे सभायां समितिः क्षयवासावपि क्षिती रवेरर्चिश्व शस्त्रं च वह्निज्वाला च हेतयः जगती जगति च्छन्दोविशेषेऽपि क्षितावपि पश्छिन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः वनिता जनितात्यर्थानुरागायां च योषिति गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः बृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि वासिता स्त्रीकरिण्योश्च वार्ता वृत्तौ जनश्रुती वार्त फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते
२११
For Private and Personal Use Only
२४७५
२४७६
२४७७
२४७८
२४७९
२४८०
२४८१
२४८२
२४८३
२४८४
२४८५
२४८६
नद्यां नागानां नगर्यां च भोगवती । संगरादित्रये समितिः । क्षयो नाशः । वासो निवासः । ‘अपि’शब्दात् मेदिन्यां कालिमेदे च क्षितिः । सूर्यप्रभादिषु हेतिः । जगति लोके क्षितौ भुवि छन्दोविशेषे द्वादशाक्षरपादकवृत्ते जगती । 'अपि'शब्दाज्जनेऽपि । दशमं छन्दः दशाक्षरणदकं आवलिरपि पङ्किः । प्रभावे उत्तरकालेऽप्यायतिः । गतौ वीरमेदे सैन्यमेदे च पत्तिः । पक्षमेदयोर्मासार्धस्य च मूले प्रतिपदि पक्षिपक्षस्य मूलेऽधोदेशे च पक्षतिः । योनौ लिङ्गे च प्रकृतिः । चकारात्प्रधानत्वे अमात्यादौ खभावे च । 'आद्य' शब्दात् आरभटी- सात्त्वती -भारत्यो वृत्तयः । चकाराज्जीविकायां सूत्रविवरणे च वृत्तिः । सिकताशब्दो वालुकायाम् । 'अपि' शब्दात्सिकतान्वितदेशे च शर्करायां च कीर्तितः । वेदे श्रवसि कर्णे च श्रुतिः । जनितोऽत्यन्तानुरागो यस्यां तस्यां योषिन्मात्रे च वनिता । क्षितिव्युदासे भूविवरे । अपिशब्दाद्रक्षणे च गुप्तिः । धारणायां धैर्ये [तुष्टौ योगमेदे] च धृतिः । क्षुद्रवार्ताकी ओषधिविशेषो बृहती । छन्दोमेदो नवमं छन्दो बृहती । महती विपुला सापि बृहती स्यात् । स्त्रीकरिण्यो योषिद्धस्तिन्योर्वासिताशब्दः । वृत्तौ जीविकायाम् । जनश्रुतौ वृत्तान्ते वार्ता । फल्गुन्यसारे वार्तम् । रोगरहिते