________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
अमरकोषे
[५. नानार्थवर्गः आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः २४६२ कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु
२४६३ श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः २४६४ इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः २४६५ कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे
२४६६ कासूसामर्थ्ययोः शक्तिमूर्तिः काठिन्यकाययोः २४६७ विस्तारवल्लयोव्रततिर्वसती रात्रिवेश्मनोः
२४६८ क्षयार्चयोरपचितिः सातिर्दानावसानयोः २४६९ अर्तिः पीडाधनुष्कोट्योर्जातिः सामान्यजन्मनोः २४७० प्रचारस्यन्दयो रीतिरीतिर्डिम्बप्रवासयोः २४७१ उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे
२४७२ वीणाभेदेऽपि महती भूतिभस्मनि संपदि
२४७३ नदीनगर्यो गानां भोगवत्यथ संगरे
२४७४ नृत्यस्थाने नृत्यमण्डपे । नीवृद्विशेषो जनपदविशेषः, एतेष्व नर्तः । यमो धर्मराजः । सिद्धान्तः, दैवं प्राकनं कर्म, अकुशलकर्म पापम् , एतेषु कृतान्तः। श्लेष्मादयो धातुशब्दवाच्याः । आदिशब्दात्पित्तादिग्रहः । नृपस्य कक्षान्तरे राज. धानीस्थानविशेषे । असर्वगोचरे इति कक्षान्तरस्य विशेषणम् । 'अपि'शब्दादन्तःपुरे आमचान्ते च शुद्धान्तः । आयुधभेदः सामर्थ्य च शक्तिः । काठिन्यकाययोमूर्तिः । विस्तारे वलयां च व्रततिः। रात्रौ गृहे च वसतिः। क्षयो हानिः। अर्चा पूजा । तत्रापचितिः । निष्कृतो व्यये च । दाने अवसाने च सातिः । पीडायां धनुष्कोव्यां च आर्तिः । सामान्यं गोत्वादि जन्मनि च जातिः । प्रचारः लोकाचारः । स्यन्दः प्रस्रवणम् । तत्र रीतिः । डिम्बे प्रवासे च ईतिः । उदये उत्पत्तौ । अधिगमे लामे च प्राप्तिः । अग्नित्रये दक्षिणगाईपत्याहवनीयाख्ये। द्वितीये युगे त्रेताशब्द आवन्तः । वीणामेदो नारदी वीणा । महत्त्वयुक्तायां भार्यादौ च महती। भस्मनि संपदि अणिमादौ च भूतिः।
For Private and Personal Use Only