SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ अमरकोषे [३. विशेष्यनिन्नवर्गः २१८६ प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् २१८२ एकतानोऽनन्यवृत्तिरेका|कायनावपि २१८३ अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः २१८४ पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् २१८५ अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् २१८७ साधारणं तु सामान्यमेकाकी त्वेक एककः २१८८ भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि २१८९ उच्चावचं नैकभेदमुच्चण्डमविलम्बितम् २१९० अरुंतुदं तु मर्मस्पृगवाधं तु निरर्गलम् २१९१ प्रसव्यं प्रतिकूलं स्यादपसव्यमपठु च २१९२ वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम् २१९३ संकटं ना तु संबाधः कलिलं गहनं समे ऐन्द्रियकम् , इति २ इन्द्रियग्राह्यस्य ॥ अप्रत्यक्षम् , अतीन्द्रियम् , इति २ इन्द्रियैरग्राह्यस्य धर्मादेः ॥-एकतानः, अनन्यवृत्तिः, एकाग्रः, एकायनः, एकसगः, एकाग्र्यः, एकायन गतः, इति ७ एकाग्रस्य ॥-~-आदिः, पूर्वः, पौरस्त्यः, प्रथमः, आद्यः, इति ५ आद्यस्य ॥ तत्रादिः पुंस्येव ॥---अन्तः, जघन्यम् , चरमम् , अन्त्यम् , पाश्चात्यम् , पश्चिमम् , इति ६ अन्त्यस्य । तत्रान्तः पुं-नपुंसकयोरेव ॥-मोघम् , निरर्थकम् , इति २ व्यर्थस्य ॥-स्पष्टम् , स्फुटम् , प्रव्यक्तम् , उल्बणम् , इति ४ स्पष्टस्य ॥ साधारणम् , सामान्यम् , इति २ साधारणस्य ॥-एकाकी, एकः, एककः, इति ३ असहायस्य ॥भिन्नः, अन्यतरः, एकः, त्वः, अन्यः, इतरः, इति ६ भिन्नार्थकाः ॥-उच्चावचम् , नैकमेदम्, इति २ बहुविधस्य ॥ उच्चण्डम् , अविलम्वितम्, इति २ तूर्णस्य ॥-अरुंतुदम् , मर्मस्पृक्, इति २ मर्ममेदिनः ॥-अवाधम् , निरर्गलम्, इति २ निर्वाधस्य ॥ प्रसव्यम् , प्रतिकूलम् , अपसव्यम् , अपष्ठु, इति ४ विपरीतस्य । यद्वामं शरीरं तत् सव्यमिति १। यद्दक्षिणं शरीरं तत् अपसव्यमिति १॥-संकटम् , संबाधः, इति २ अल्पावकाशे वादौ । ना पुमान् ॥ For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy